________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृहस्थाश्रमांतर्गत श्रौतस्मर्तिकर्मानुष्ठानसिद्धये धर्मप्रजासहत्वकर्मसिद्ध्यर्थेच कन्यांप्रतिगृह्णामीतिवदेत् ॥ ततो दातादेशकालौसंकीर्त्य कृतस्यकन्यादानकर्मणः सांगतासिद्ध्यर्थं इदं सुवर्ण अभिदैवतं दक्षिणात्वेन तुभ्यमहं संप्रददेनममेतिवरहस्तेदद्यात् ॥ ॐ स्वस्तीतिवरः ॥ ततोदाता एवमेवजलपात्रभोजनभाजना निगोमहिष्यश्वगजदासीदास भूवाह नालंकारादियथाविभवसंकल्प्य दद्यात् ॥ ततो बाह्मणभोजनंसंक ल्प्य भूयसींचदद्यात् ॥ कर्मेश्वरार्पणं कुर्यात् ॥ अन्यदपियथाचारकार्यम् ॥ विस्तरस्तु प्रयोगरत्नादौज्ञेयः || कन्यागृहे भोजन निषेधोमदनरत्नेवह्निपुराणे ॥ ॥ अप्रजायांतुकन्या यांन मुंजीत कदाचन ॥ दौहित्रस्यमुखं दृष्ट्वा किमर्थमनुशोचति ॥ इतिकन्यादानप्रयोगः ॥ अथकपिलादानम् ॥ साचदशधोक्ता वाराहे ॥ सुव र्णकपिलापूर्वाद्वितीयागौरपिंगला ॥ तृतीयाचैवरक्ताक्षीचतुर्थीगूढपिंगला ॥ पंचमीबहुवर्णास्यात्पष्ठी श्वेतपिंगला ॥ सप्तमीश्वेतपिंगाक्षीअष्टमी कृष्णपिंगला ॥ नवमीपाटलाप्रोक्तादशमीपुच्छपिंगला एतादशविधाः ख्याताःकपिलास्तेमहामुने ॥ सर्वाह्येतामहाभागास्तारयतिनसंशः - यइति ॥ आदित्यपुरा णे । सहसंयोगवांदद्यात्कपिलांत्वेकदैवहि ॥ सममेवपुराप्राह ब्रह्माब्रह्मविदांवरः - इति । तथा । स्वर्णशृं
For Private and Personal Use Only