________________
Shri Mahavir Jain Aradhana Kendra
दान ॥१४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रधिष्ठानमतः पाहिसनातन- इति वृषभंचप्रार्थयेत् ॥ ततः सकुशतिलजलमादाय || अद्येत्यादि ० ममसम स्तपापक्षयपूर्वक शिवविष्णुसान्निध्यावाप्तिकामोवृषाधिकदशगाधेनूपस्कराः सहिरण्यदक्षिणायुतारुद्रदैवता स्तन्मूल्योपकल्पितनिष्क्रयरजतमुद्रावानानानामगोत्रेभ्यो ब्राह्मणेभ्योदातुमहमुत्सृजे नममेतिसंकल्पं कुर्यात् ॥ ततोत्राह्मणभोजनसंकल्पः ॥ भूयसींचदद्यात् ॥ अथवावृषाधिकधेनूपस्करसहिरण्यदक्षिणायुतदशगारुद्र देवतास्तन्मूल्योपकल्पित रजतमुद्राः नानानामगोत्रेभ्योत्राह्मणेभ्योदातुमहमुत्सृजे नममेत्युक्त्वा दद्यात् ॥ ब्राह्मणभोजनसंकल्पं कृत्वा भूयसींचदद्यादितिसंक्षेपः ॥ इतिसवृषदशगोदानप्रयोगः ॥ ॥ ६ ॥ ॥ अथदशमहादाना नि ॥ कर्मे ॥ कनकाश्वतिलानागादासीरथमहीगृहाः || कन्याचकपिलाधेनुर्महादानानिवेदश ॥ तत्रप्र थमंतावत्सुवर्णदानम् ॥ मूले ॥ दत्त्वा सुवर्णस्यशतंविप्रेभ्यः श्रयाऽन्वितः ॥ ब्रह्मलोकमनुप्राप्यबह्म णासह मोदते ॥ गव्येनभूमिं शकृताजलेन आलिप्यमध्येसिततंडुलैश्च ॥ सरोरुहं के सर भूषणाढयंस कर्णि कंचाष्टदलंविलिख्य ॥ तस्मिन्हिरण्यशतमानमात्रंनिधाय तस्योपरितंविचिंत्य ॥ इति ॥ तत्रवह्माणं कमलासनस्थं संपूज्य विप्रंवृत्वा यथाविभववस्त्रालंकारादिभिः संपूज्य दद्यात् ॥ हेमाद्रौदानकांडे
For Private and Personal Use Only
चंद्रि०
113811