________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
॥
२
॥
दीषु गंडक्यादिषुतुतीरेऽपिनिषेधः ॥ तदुक्तंदानधर्मे ॥ गंडक्यादिषुतीरेऽपिनग्राह्यभूतिमिच्छता-इति ॥ चंद्रि० अत्यंतापदितीर्थेऽपिग्राह्यम् ॥ अथचे प्रतिगृह्णीयाद्राह्मणोवृत्तिकर्शितः ॥ दशांशमर्जितंदंद्यादेवंधर्मोनहीय । ते-इतिपाद्यात् ॥ ॥ अथदानकृत्यम् ॥ ॥ वाराहे ॥ सुनातःसम्यगाचांतःकृतसंध्यादिकक्रियः ॥ काम क्रोधविहीनश्चपाखंडस्पर्शवर्जितः ॥ दद्यादितिशेषः ॥ कात्यायनः ॥ कुशोपरिनिविष्टेनतथायज्ञोपवीति । ना॥देयंप्रतिगृहीतव्यमन्यथाविफलंभवेत् इति ॥ गौतमः ॥ अंतर्जानुकरंकृत्वासकुशंसतिलोदकम् ॥ फलान्यपिचसंधायप्रदद्याच्छ्रद्धयान्वितः ॥ नामगोत्रेसमुच्चार्यप्राङ्मुखोदेयकीर्तनात् ॥ उदङ्मुखायविप्रा यदत्त्वातंस्वस्तिकीयेत् ।। सदेवताकदेयंकीर्तनानंतरंदत्त्वेत्यर्थः॥ ॥ अथप्रतिगृहीतकृत्यम् ॥ ॥तत्रैव ॥ ॐ कारमुच्चरन्प्राज्ञोदविणंसकुशोदकम् ॥ गृह्णीयाद्दक्षिणेहस्तेतदंतेस्वस्तिकीर्तयेत् ॥ प्रतिगृहीतासावित्रंसर्व त्रैवानुकीर्तयेत् ॥ सावित्रंदेवस्यत्वेति ॥ ततस्तुकीतयेत्सा(द्रव्यंचद्रव्यदेवताम् ॥ समापयेत्ततःपश्चात्काम स्तुत्याप्रतिग्रहम् ॥ यथाशाखम् ॥ कइदंकस्माअदादितिमंत्रंपठित्वेत्यर्थः ॥ आदित्यपुराणे ॥ प्रतिग्रहंपठेदुः ॥ २ ॥ चःप्रतिगृह्यदिजोत्तमात् ॥ मंद्रपठेत्तुराजन्यादुपाशुचतथाविशि ॥ मनसाचतथाशद्रेस्वस्तिवाचनमेवच ॥
For Private and Personal Use Only