________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दद्यात् ॥ इतिउमामहेश्वरमूर्तिदानम् ॥ ॥ अथलक्ष्मीनारायणमूर्तिदानम् || स्कांदे | संकल्पादिपूर्व वत् ॥ मंत्रस्तु | लक्ष्मीनिवासदेवेशशंखचक्रगदाधर ॥ तवदानात्स्थिरालक्ष्मीर्मदृहस्यात्सदाध्रुवम् ॥ सुवर्णदक्षिणांदद्यात् ॥ इतिलक्ष्मीनारायणमूर्तिदानम् || || अथहरिहरमूर्तिदानम् ॥ संकल्पादिपूर्ववत् ॥ मं त्रस्तु ॥ शिवोनामशिवः साक्षातथानारायणोपिच ॥ अस्यदानाद्धरिहरौ प्रसन्नोस्तांसदामम ॥ इति हरिहरमूर्तिदानम् ॥ ॥ अथसूर्यमूर्तिदानम् ॥ सूर्यारुणसंवादे || संकल्पादिपूर्ववत् ॥ मंत्रस्तु ॥ ग्रहा णामधिपः सूर्यः पद्महस्तः प्रभाकरः ॥ अस्यदानेनसविताआयुः श्रीशांतिदोऽस्तु मे ॥ सुवर्णादिदक्षिणांद द्यात् ॥ इतिसूर्यमूर्तिदानम् ॥ ॥ अथगणपतिमूर्तिदानम् || स्कांदे || यमानमंतिईशाद्याविश्वनाथमुमा सुतम् ॥ विनेशरक्षप्रचुरंतुभ्यं दास्याम्यभीष्टदम् ॥ इतिसंप्रार्थ्य संकल्पादिकृत्वादद्यात् ॥ मंत्रस्तु ॥ गु णनाथोविघ्नहरोगौरीसूनुरभीष्टदः ॥ अस्यदानेनमेशांतिः प्रसन्नोस्तुविनायकः - - इति ॥ इतिगणेशमूर्ति | दानं ॥ ॥ अथजगदंबिकामूर्तिदानम् ॥ देवीपुराणे ॥ संकल्पादिपूर्ववत् ॥ मंत्रस्तु || आदिमायाम हाशक्तिर्विश्वमाताजगन्मयी ॥ दानेनास्याः प्रसन्नास्तु सर्वदाममशांभवी ॥ इतिजगदंबिकादानम् ॥ ॥ अथस
For Private and Personal Use Only