________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Secondary Word-Units
तान् पुण्यकृतान् । (१७) पुण्यानि यैः कृतानि ते पुण्यकृतः, तेषां पुण्यकृताम् । (१८) प्रियं ये कुर्वन्ति ते प्रियकृतः तेषां उत्तमः प्रियकृत्तमः । ( १९ ) मत्कर्म (मम प्रीत्यै, मदर्थं वा, मत्कृतं कर्म ) यः कुरुते सः मत्कर्मकृत् । ( २० ) लोकक्षयं ( लोकानां क्षयः लोकक्षयः, तम् ) यः कुरुते सः लोकक्षयकृत् । ( २१ ) वर्णसङ्करान् (वर्णानां सङ्कराः वर्णसङ्कराः, तान् ) कुर्वन्ति ( उत्पादन्ति ) इति वर्णसङ्करकारकाः, तैः वर्णसङ्करकारकैः । ( २२ ) वेदान्ताः (वेदानां अन्ताः अन्तिमभागाः) येन कृताः सः वेदान्तकृत् । ' वेदान्तार्थसंप्रदायकृत् ' इति शङ्करः । ( २३ - २४) सुष्ठु कृतम् सुकृतम्; तस्य सुकृतस्य ।
Acharya Shri Kailassagarsuri Gyanmandir
287. कृत (noun)—– (१) अकृतेन । (२) कृतान्ते । - ( १ ) न कृतम् (कर्म) अकृतम्, तेन अकृतेन । ( २ ) [विग्रहपद्धत्यै 'अन्त' (१०) शब्दो दृष्टःय ] ।
"
288. कृतबुद्धित्व - अकृतबुद्धित्वात् न कृताबुद्धिः (असंस्कृता बुद्धिः) अकृतबुद्धिः, तस्याः भावः अकृतबुद्धित्वम् तस्मात् ।
289. कृतात्मन् — अकृतात्मानः --- [कृतः (संस्कृतः ) आत्मा येषां ते कृतात्मानः ] न कृतात्मानः
अकृतात्मानः ।
290. कृतिन् - ( १ ) दुष्कृतिनः । (२) सुकृतिनः । - ( १ ) दुष्टानि कृतानि ( कर्माणि येषां ते दुष्कृतिनः । ( २ ) सुष्टु कृतानि ( कर्माणि) येषां ते सुकृतिनः ।
291. कृते - महीकृते - मही पृथिवी, तस्याः कृते ( अर्थे) ।
292.
कृत्य—कृतकृत्यः— [विग्रहपद्धत्यै 'कृ' (९) शब्दो दृष्टव्यः] ।
293. कृत्व——सहस्रकृत्वः -- सहस्र कृत्वः (सहस्रधा, सहस्रवारं वा ) । 294. कृत्स्न - कृत्स्नवित् — कृत्स्नं वेत्ति इति ।
295. कृत्स्नकर्म - कृत्स्नकर्मकृत् - [ विग्रहपद्धत्यै 'कृ' (१२) शब्दो दृष्टव्यः ] ।
296. कृत्स्नविद् - अकृत्स्नविदः -- ( कृत्स्नं विदन्ति इति कृत्स्नविदः); न कृत्स्त्रविदः अकृत्स्नविदः । 297. कृषि — कृषिगोरक्ष्यवाणिज्यम् - कृषिः (कृषिकर्म ), गोरक्ष्यं ( गवां रक्षणम्), वाणिज्यं च, एतेषां समाहारः कृषिगोरक्ष्यवाणिज्यम् ।
298.
कृष्ण - शुक्लकृष्णे - शुक्ला च कृष्णा च ।
299. केशव – केशवार्जुनयो: - [ विग्रहपद्धत्यै 'अर्जुन' (१) शब्दो दृष्टव्यः] ।
300. केशि-केशिनिषूदन --- केशिनामकस्य राक्षसस्य निषूदनः ( संहर्ता) केशिनिषूदनः । संबोधने विसर्ग लोपः ।
301. क्रिया - (१) अक्रियः । (२) दान कियाः । ( ३ ) मनःप्राणेन्द्रियक्रियाः । ( ४ ) यज्ञतप, क्रियाः । ( ५ ) यज्ञदानतपः क्रियाः । - ( १ ) क्रियाभ्यः व्यावृत्तः इति अक्रियः । ( २ ) दानरूपाः क्रियाः दानक्रियाः । ( ३ ) [ विग्रहपद्धत्यै 'इन्द्रिय' (१३) शब्दो दृष्टव्यः ] । ( ४ ) यज्ञाः तपांसि च तद्रूपाः क्रियाः यज्ञतपःक्रियाः । ( ५ ) यज्ञाः दानानि तपांसि च तद्रूपाः क्रियाः यज्ञदानतपःक्रियाः ।
247
For Private and Personal Use Only