________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Bhagavadgita Word-Index Pt. II-A (a)
7. अग्नि-(१)आत्मसंयमयोगाग्नौ। (२) इन्द्रियामिषु। (३) ज्ञानामिः। (४) निरमिः।
(५) ब्रह्मानौ। (६) संयमाग्निषु ।-(१) आत्मसंयमयोगः [आत्मसंयमः (आत्मनः संयमः) एव योगः एव अग्निः आत्मसंयमयोगाग्निः, तस्मिन् आत्मसंयमयोगाग्नौ । (२) इन्द्रियाण्येव अग्नयः इन्द्रियामयः, तेषु इन्द्रियाग्निषु । (३) ज्ञानं एव अग्निः ज्ञानाग्निः। (४) निर्गताः अग्नयः यस्य गृहात् स निरग्निः। (५) ब्रह्म एव अग्निः ब्रह्मानिः, तस्मिन् ब्रह्मानौ। (६) (इन्द्रियाणां) संयमाः एव अग्नयः संयमामयः,
तेषु संयमामिषु। अग्र-(१) एकाग्रम् । (२) एकाग्रेण । (३) नासिकाग्रम् । -(१-२) एकः एव अग्रे यस्य
तत् एकाग्रम् ; तेन एकाग्रेण। (३) नासिकायाः अग्रम् नासिकाग्रम् , तम्
नासिकाग्रम्। 9. अघ-(१) अघायुः । (२) अनघ ।-(१) अघं (पापमयं ) आयुः यस्य सः अघायुः ।
(२) न विद्यते अघं (पापं ) यस्मिन् सः अनघः; संबोधने विसर्गलोपः। 10. अङ्ग-उत्तमाजैः-उत्तमानि अङ्गानि उत्तमाङ्गानि ( शिरांसि ) तैः । 11. अचर-(१) चराचरम् । (२) चराचरस्य । (३) सचराचरम् । -(१-२) चरं च अचरं
(न चरं) च चराचरम् ; तस्य चराचरस्य। (३) चरं च अचरं (न चर) च तयोः
सहितं सचराचरम् । 12. अचल-अचलप्रतिष्ठम्-अचला (न चला ) प्रतिष्ठा यस्य सः भचलप्रतिष्ठः, तम । 13. अचिन्त्य-अचिन्त्यरूपम्-अचिन्त्यं (न चिन्त्यं) रूपं यस्य सः अचिन्त्यरूपः, तम् । 14. अजय-जयाजयो-जयः च अजयः ( न जयः ) च । 15. अजिन-(१) चेलाजिनकुशोत्तरम्। (२) चैलाजिनकुशोत्तरम् ।-(१-२) चेलं चैलं वा
अजिनं कुशाश्च उत्तरोत्तरं यस्मिन् (आसने) तत् (आसन) चैलाजिनकुशोत्तरम् , तम् । 16. अज्ञान-(१) अज्ञानजम् । (२) अज्ञानविमोहिताः। (३) अज्ञानसम्भूतम्। (४) अज्ञान
सम्मोहः।-१) अज्ञानाजातम अज्ञानजम तम अज्ञानजम। (२) अज्ञानेन विमोहिताः अज्ञानविमोहिताः। (३) अज्ञानात्सम्भूतम् अज्ञानसम्भूतम् , तम्
अज्ञानसम्भूतम् । (४) अज्ञानाजातः सम्मोहः अज्ञानसम्मोहः । 17. अञ्जलि-- कृताञ्जलिः-कृता अञ्जलिः येन सः । 18. अति-(१) अतिनीचम्। (२) अतिस्वप्नशीलस्य। (३) अतीतः। (४) अतीन्द्रियम् ।
(५) अत्यद्भुतम्। (६) अत्यन्तम् । (७) अत्यर्थम् । (८) अत्यनतः। (९) अत्युच्छ्रितम् ।-(१) अतिशयेन नोचम् अतिनीचम्। (२) अतिशयेन स्वप्नशीलः (स्वप्नं शीलं यस्य सः) अतिस्वप्नशीलः, तस्य अतिस्वप्नशीलस्य । (३) अतिक्रम्य ईतः अतीतः । (४) इन्द्रियाणि अतिक्रम्य यद्ववर्तते तत् अतीन्द्रियम् । (५) अतिशयेन अद्भुतम् अत्यद्भुतम् । (६) अन्तमतिक्रम्य यद्वर्तते तत् अत्यन्तम् । (७) अतिक्रम्य अर्थम् अत्यर्थम् । (८) अतिशयमश्नातीति अत्यश्नत् , तस्य अत्यश्नतः ।
(९) अतिशयेन उच्छ्रितम् अत्युच्छ्रितम् । 19. अतिमानिता-नातिमानिता-अतिमानितायाः अभावः।
226
For Private and Personal Use Only