________________
Shri Mahavir Jain Aradhana Kendra
www.kobairt.org
Acharya Shri Kailassagarsur Gyanmandie
SARDARSHRE
SAASAHASR-RARY
इत्युक्तमेकेन्द्रियाणां स्वकायस्थितिद्वारं, अथ विकलादीनां स्वकायस्थितिद्वारं निरूपयन्नाह-- संखिज्जसमा विगला, सत्तट्ठभवा पणिदितिरिमणुआ। उववज्जति सकाए, नास्य देवा य णो चेव ॥४१॥
व्याख्या-सयातसमाः सङ्ख्यातवर्षसहस्राः “विगलाइए वाससहससंखज ति" पञ्चसङ्ग्रहवचनात् विकलाः स्वकाये उत्पद्यन्ते । तथा संजिनः पर्याप्ताः पञ्चेन्द्रियतिर्यङ्मनुष्याः सप्ताष्टौ भवाः । तत्र सप्त भवाः सङ्कथेयवर्षायुषोऽष्टमस्त्वसङ्ख्यातवर्षायुरेव । तथाहि-पर्याप्तसंज्ञिमनुष्याः पर्याप्तसंक्षिपञ्चेन्द्रियतिर्यञ्चो वा निरन्तरं यथासङ्कथं सप्त नरभवांस्तियग्भवांश्चानुभूय यद्यष्टमे भवे भूयस्तेष्वेवोत्पद्यन्ते, ततो नियमादसङ्ख्यातवर्षायुष्केष्वेवोत्पद्यन्ते, असङ्ख्यातायुष्कश्च मृत्वा सुरेष्वेवोत्पद्यते, ततो नवमोऽपि नरभवस्तिर्यग्भवो वा, परं निरन्तरं न लभ्यते । अष्टभवेत्कर्षतः कालमानं त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाधिकानि, जघन्या | तु सर्वत्रापि कायस्थितिरन्तर्मुहर्त्तमिति । नारकदेवाश्च स्वकाय नोत्पद्यन्ते । इति गाथार्थ: ।। ४१॥
इत्युक्तं स्व कायस्थितिद्वारं, अथ प्रक्रमात्केषां कति प्राणास्तदाथाद्वयेन दर्शयन्नाहदसहा जियाण पाणा, इंदिउसासाउजोगबलरूवा । एगिदिएसु चउरो, विगलेसु छ सत्त अद्वेव ॥ ४२ ॥ असन्निसन्निपंचिंदि-एसु नव दस कमेण बोद्धव्वा । तेहि सह विप्पओगो, जीवाणं भण्णए मरणं ॥४३॥
व्याख्या-दशधा दशप्रकारा जीवानां प्राणाः । ते के ? पूर्व पञ्चेन्द्रियाणि स्पर्शनरसनघाणचक्षुःश्रोत्ररूपाणि । तथोच्छवासशब्देनाविनाभावित्वानिःश्वासोऽपि गृह्यते । तत उच्छ्वासनिःश्वासरूप एकः प्राणः आयुश्च प्राग्व्यावर्णितस्वरूपं, तथा त्रयाण मनोवाकायलक्षणानां योगानां बलरूपा इत्येते दश प्राणाः। अस्यां व्याख्यायामयं पाठो ग्राह्यः " इंदिउसासाउजोगवलरूवत्ति"।
STHAHABHA
For Private and Personal Use Only