________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
• टीका ॥७॥
A
प्रकाशिताऽष्टाचत्वारिंशत् सहस्र महाविद्याप्रसादोपनम्रकसमस्त मनो मनोरथा तिथिपदार्थसमासादित परमानन्द संदोहा गगनगमनसामर्थ्यसमन्वित विद्याधराः मुखमासते पुनर्दशयोजनान्युपरिष्टादारुह्य विद्याधरश्रेणिसमा विषमोभत भूमिरिन्द्राभियोगिकदेवकृतनिवासा श्रेणिद्वयी समस्ति । ततोऽपि पञ्चसु योजनेषूपरिदश योजनानि विस्तीर्ण वेदिकां वनखण्डमनोहरमनल्पकल्पवासि देवक्रीडायोग्यं स्थानमास्ते ॥११॥ ___ तत्र सपादषट्योजनोच्छ्रयाणि तावन्त्यूल(?)विस्ताराणि उपरिष्टा सार्द्ध द्वादशक्रोशायामानि नवकूटानि । तथाहि-सिद्धायतन १ दक्षिणार्द्धभरत २ खंडप्रपात ३ मणिभद्र ४ विजयाढय ५ पूर्णभद्र ६ तमिस्रागुह ७ उत्तरार्द्धभरत ८ वैश्रमणनामानि । तेषु माणिभद्रविजयादथपूर्णभद्रक्टानि हिरण्यमयानि अपराणि षट् रत्नमयानि । प्रथमे पूर्वदिग्वर्तिनि क्रोशदैय क्रोशा विस्तीर्ण चत्वारिंशदर्गलचतुर्दश धनुःशतोच्छ्रायं सिद्धायतनं तस्मिन् पश्च धनुः शतोच्चानि तदर्द्धविस्ताराणि त्रीणि द्वाराणि तिसृषु | दिक्षु तद्यथा-प्राच्यां प्रथमं द्वारं द्वितीयं दक्षिणस्यां तृतीय मुदीच्या प्रतीच्या तु न किञ्चिदिति । किश्च सर्वेषु सिद्धायतनेषु च जम्बूद्वीपमध्येऽयमेव द्वारदिगविभागः तस्य हि बहुमध्यदेशे क्रोशचतुर्थायामविष्कम्भा तदर्दपृथुला मणिपीठिका तस्या उपरि पञ्च धनुः शतायामविस्तारस्तदधिकोच्छायो देवच्छन्दकस्तत्राष्टोत्तरं शतं प्रतिमाः । ता हि जघन्यतः सप्त हस्तप्रमाणा उत्कर्षतः पश्च धनुःशतोच्चा ऋषभ वर्द्धमान चन्द्रानन वारिषेणाख्याः सन्ति पूर्ण कलशनागदन्तक शालभंजका जालकटकादिरचना विशेषाः सर्व चैत्येषु ज्ञेया। ततः परं भरतार्द्धकूटं तत्र भरतदेवस्य सिद्धायतनप्रमाणः प्रासादः खण्डप्रपात तमिस्रागुहयोवृत्तमालकृतमालौ देवौ। अन्येषु पञ्चमु स्वनामानो देवाः प्रासादेषु विलसन्ति तथा हिमयभितम्बदक्षिणदिशि
SARASIRSASAR
For Private and Personal Use Only