SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir ज. टीका ॥१॥ दकान्तवादि संदोहारसादीनां गिरा स्वर्गाऽपवर्गानावानुवादानां श्री हरिभद्रसरिपादानां कृतौ सचिख्यासायां मादृशस्याल्पमेधसः कोऽवकाशस्तथाऽप्यर्थनिपुणप्रकरणरागात् स्वशक्तिमजानानोऽप्युपचक्रमे । इह तावत् सूत्रकारः प्रथमचतुरतिशयस्वरूप भगवन्नमस्कार-मङ्गलाद्यभिधायिका शिष्टोपदिष्ट मार्गानुसरणार्थमाधगाथामाहनमिय जिणं सव्वन्नूं जयपुज्जं जयगुरुं महावीरं । जंबुद्दीवपयत्थे वुच्छं सुत्ता सपरहेउं ॥१॥ नमियजिणेत्यादि । महावीरं नत्वा जम्बूद्वीपपदार्थान् वक्ष्ये इति सम्बन्धः । तत्र कर्मविदारणादिगुणाद् वीरः। उक्तं च विदारयति यत् कर्म तपसा च विराजते । तपो वीर्येण युक्तश्च तस्माद् वीर इति स्मृतः॥ ततो महांश्चासौ वीरश्व महावीरश्वरमतीर्थकरस्तं नत्वा प्रणम्य किंविशिष्टमित्याह-रागादीनष्टादशान्तरकारीन् जयत्यभिभवतीति जिनस्तं तथोक्तम् । इत्यनेनापायापगमातिशयः अपायरूपान्तरारिक्षयात् तथा सर्वज्ञं सर्व जीवाऽजीवगतिस्थित्यादिकं जानाति वेत्तीति सर्वज्ञस्तं तथाविधम् । इह ज्ञान ग्रहणेन दर्शनमपि गृहीत तेन सर्वदर्शिनमित्यपि प्रत्येतव्यम् । तन्नान्तरीयकत्वाद् एतेन तु ज्ञानातिशयः सूचितः तथा जगज्यस्तं तथाप्रकारम् । अनेन तु विशेषणेन पूजातिशयः पुनः कीदृशं जगद्गुरुं इह जगच्छन्देन चर्तुदशरज्जात्मक लोकपरिग्रहस्ततो जगच्चराचरं गृणाति कथयति जगद्गुरुस्तम् । अनेक द्वीप-सागरसुरालय नैरयिकालयादिपूर्ण जगवार(१)मित्यर्थः । मूक केवलिनो हि सर्वदर्शिनोऽपि वचनसामर्थ्याभावान विश्वस्वरूपं निरूपयितुमलंभूष्णवो भवन्त्यनेन तदव्यवच्छेदाद् वचनातिशयः प्रत्यपादि एवं गावाः भगवन्नमस्काररूपं मङ्गलमुक्तम् । अपराः तु अभिधेयादीनाह ॥१॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy