________________
Shri Mahavir Jain Aradhana Kendra
૧૧
www.kobatirth.org
यन्त्र पत्र तथा लिखिता ततः सुगमतायै सूत्रतया गुम्फिता इत्यर्थः । किंभूता आत्महिता अनेन " न भवति हि धर्मः श्रोतुः, सर्वस्यैको हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्धया वक्तुस्त्वेकान्ततो भवति ||१|| ” इति सूक्तं स्थापितम् ||४४||
निधिमुनिशरेन्दु (१५७९) संवल्लिपीकृता पत्तनेऽवचूर्णिरियम् । संशोध्या धीमद्भिर्मत्वेदं बालचापल्यम् ॥१॥ ॥ श्रीगजसारमुनिप्रणिता स्वोपज्ञाऽवचूर्णिः समाप्ता ॥
टीका-सिरिजिणेति० हे जिना: ! जिनहंसमुनीश्वरराज्ये गजसारेण एषा विचारपट्त्रिंशिकाकरणरूपा विज्ञप्ति - लिखिता । किंभूतेन गजसारेण ? - श्रीघवलचन्द्रशिष्येण श्रिया युक्तो धवलचन्द्रः श्रीघवलचन्द्रस्तस्य शिष्यः श्रीघवलचन्द्रशिष्यस्तेन श्रीवलचन्द्रशिष्येण, किंभूता विज्ञप्तिः ? - आत्महिता आत्मने हिता आत्महिता, परेषां बोधो भवतु वा मा भवतु परं वक्तुर्बोधो भवति, यदुक्तं -अस्तु वा माऽस्तु वा बोधः परेषां कर्मयोगतः । तथापि वक्तुर्महती, निर्जरा गदिता जिनैः || १ ||४४ ॥ अथ टीकाकारप्रशस्तिः
(आर्या ) श्रीहीरविजयसूरीश्वरा बभूवुर्जगत्त्रयीविदिताः । तद्वाचका महोदयराजः श्रीभानुचन्द्राहा ॥ १ ॥ जयन्तु ते वाचकभानुचन्द्रा, अभ्यस्तसद्वाङ्गमय वीततन्द्राः ।
ये मानसे हंसता बभूवुर कम्बरक्षोणिपतेस्तु भूतेः ॥ २ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir