________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१४०
चरक-संहिता। [विसपचिकित्सितम् यवचूर्ण समधकं सघृतञ्च प्रलेपनम् । हरेणवो मसूराश्च समुद्गाः श्वेतशालयः ।। पृथक् पृथक् प्रदेहाः स्युः सर्वे वा सह सर्पिषा। पद्मिनीकर्दमः शीतो मौक्तिकं पिष्टमेव च ॥ शङ्खः प्रबाला: शुक्तिर्वा गैरिको वा घृतप्लुतः। पृथगते प्रदेहाश्च हिता ज्ञया विसर्पिणाम् ॥ प्रपौण्डरीकं मधुकं बला शालूकमुत्पलम् । न्यग्रोधपत्रं दुग्धीका सघृतं स्यात् प्रलेपनम् ॥ विसानि च मृणालानि सघृताश्च कशेरुकाः।
शतावरीविदार्योश्च कन्दौ धौतघृतं तथा ॥ न्यग्रोधोडुम्बराश्वत्थ-वेतसप्तक्षजाम्बवैः।
त्वकल्कैर्बहुसपिभिः शीतैरालेपनं हितम् ॥ शालूकं नीलोत्पलस्य कन्दः। वीरां शालपर्णीम् । चन्दनान्त एको योगः। मृणालानि विसानि चेति द्वितीयः। पद्मपुष्पवृन्तं मृणालं क्षुद्रमृणालं कन्दप्रसूतमात्रं विसम्। यवचूर्णमित्यादि । घृतान्त एको योगः। हरेणवो वर्तलकलायाः श्वेतशालयो धवलवर्णशालिधान्यम्। पृथक् पृथक सह सपिंषा प्रदेहाः सर्वे वा मिलिताः सह सपिपा प्रदेहाः स्युः। पद्मिनीत्यादि । पद्मिनीकईमा पद्मश्रेणितलस्थकर्दमः शीत एव, पिष्टं पेषितं मौक्तिकम्, शङ्खादिश्च पिष्ट एव घृतप्लुतः प्रत्येक प्रदेहः। प्रपौण्डरीकमित्यादि। प्रपौण्डरीकं पौण्डर्यम्। विसानीत्यादि। विसादिकन्दान्तं शतधौतघृतयुक्तं प्रलेपनम् । शतावरीत्यादि। धोतघृतं शतधौतघृतमित्यन्त एकयोगः। न्यग्रोधेत्यादि। न्यग्रोधादीनां वापिष्टो बहुघृतमिश्रः शीतस्तेनालेपनं हितम् । मृणालमुशीरम् । वीरा विदारीकन्दः। हरेणवो वर्तुलकलायाः। श्वेतशालय अकुलित(?)शुक्लधान्यानि । दुग्धीका स्वनामख्याता। मृणालं पद्मनालिका। वृषपर्णो मूषिकपर्णिका।
For Private and Personal Use Only