________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
चाकारता
चिकित्सितस्थानम् ।
२३१५ जरणान्तेऽभयामेकां प्रागभुक्ते द्वे विभीतके। भुक्त्वा तु मधुसाि चत्वार्यामलकानि च ॥ प्रयोजयेत् समामेकां त्रिफलाया रसायनम् । जीवेद वर्षशतं पूर्णमजरोऽव्याधिरेव च ॥ ११ ॥ त्रैफलेनायसी पत्री कल्केनालेपयेन्नवाम् । तमहोरात्रिकं लेपं पिबेत् क्षौद्रोदकाप्लुतम् ॥ प्रभूतस्नेहमशनं जीणे तत्र प्रशस्यते । अजरोऽरुक समाभ्यासाज्जीवेच्चैव समाः शतम् ॥१२॥
गङ्गाधरः-जरणान्ते इत्यादि। रसायनमिच्छुः पुमान् पूर्व शुद्धतनुः सन् यथोक्तमागारं प्रविश्य सर्पिःक्षीरशालिपष्टिकाशनः पूर्व दिनाहारस्य जरणान्ते अर्थात् प्रातःकाले। यावत् पूर्ध्व दिनाहारपाकशङ्का तावन्नाभयां प्रयोजयेदिति ख्यापनाय जरणान्ते इत्युक्तम् । तथा च पूर्व दिनाहारे जीण प्रातःकाले ऊर्द्ध वाभयामेकां गुड़का पिष्ट्वा वा संचयॆ मधुसर्पिभ्यां वत्सरातीताभ्यां लिहेत् । प्राग भुक्त भोजनात् पूर्वकाले तथैव द्वे विभीतके फले मधुसपिभ्यां लिहेत् । ततो भोजनोत्तरमाचम्य चत्वार्यामलकानि फलानि तथैव मधुसर्षिभ्यां लिहेत् । एकां समाम् एकवत्सरं व्याप्य। एवंप्रकारेण प्रयोजयेदिति ॥११॥
गङ्गाधरः-त्रैफलेनेत्यादि। नवामायसी कान्तादिलोहमयीं पत्रौं प्रातःकाले त्र फलेन समभागीकृतत्रिफलाकल्केन आलेपयेत्। तल्लेपनमहोरात्रस्थितं पुनः प्रातःकाले तत्पत्रादुद्धत्य क्षौद्रोदकाप्लुतं मधुमिश्रितजलेनाप्लुतीकृत्य शुद्धतनुः पुमान् कुटीं प्रविश्य यथावलं पिबेत्। तत्रौषधे जीर्णे सति प्रभूतस्नेह स्नेहाट्यमशनमायुष्यक्षीरशाल्याद्यशनं प्रशस्यते। एवं प्रत्यहमुपयोगेन समाभ्यासात् समां संवत्सरं व्याप्याभ्यासादजरोऽरुक सन् समाः शतं वर्षशतं जीवेदिति ॥१२॥
चक्रपाणिः--जरणान्त इत्यादौ मधुसर्पियामिति अभयां विभीतके आमलकानीत्यनेन च
For Private and Personal Use Only