________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९श अध्याया] चिकित्सितस्थानम् ।
भवन्ति चात्र । आगन्तू द्वावतीसारौ मानसो भयशोकजौ। यौ तयोर्लक्षणं वायोर्यदतीसारलक्षणम् ॥ १३ ॥ मारुतो भयशोकाभ्यां शीघ्र हि परिकुप्यति। तयोः क्रिया वातहरी हर्षणाश्वासनानि च ॥ गङ्गाधरः-शेषौ पुनः कोदृशौ भवत इत्याशङ्कयाह-भवन्ति चात्रेत्यादि। चखारों दोषजा अतीसारा द्वौ चातीसारावागन्तुजौ भवतस्तौ तु मानसौ मनोदोषजौ भयशोकनौ यौ तौ द्वौ तयोर्लक्षणं वायोरतीसारलक्षणम् ॥१३॥
गङ्गाधरः-कस्मात् १ मारुत इत्यादि । हि यस्माद्भयशोकाभ्यां मारुतः शीघ्र परिकुप्यति। ततस्तयोर्भयशोकजयोरतिसारयोः क्रिया यावती वातहरी तावती कार्या, हर्षणाश्वासनानि च कार्याणि। इत्येवं चेत्, तर्हि कथं मानसावेतौ शारीरदोषपातलक्षणो वातक्रियाप्रशाम्यौ चेति ? उच्यते, मानसदोषौ रजस्तमसी ताभ्यां भयश्च शोकच, ततो मानसो भयशोको हेतुपूर्वमतिसाराय भक्त इति पूर्व मानसहेतुभ्यां भयशोकाभ्यां जातौ पश्चाद्वातेनानुबध्येते तस्माच्छारीरव्याधावुपातौ वातहरक्रिया मानसदोषहरहर्षणाश्वासनानि च विधीयन्त इति।
अथात्र जिज्ञास्यम् । इह तन्त्रे भयजोऽतिसार उक्तो न खामजः, सुश्रुतादौ खामज उक्तो न भयज इति षड्धा खभङ्ग इति। अत्रोच्यते। सुश्रुते वातपित्तकफसनिपातशोकजानतीसारानुक्त्वामज उक्तः । “आमाजीर्णः प्रद्रुताः क्षोभयन्तः कोष्ठं दोषाः सम्प्रदुष्टाः सभक्तम् । नानावर्ण नैकशः सारयन्ति
चक्रपाणिः-आगन्तू इत्यादिना भयशोकजावतीसारौ प्राह । आगन्तू इति आगन्तुजनितभयशोकजी। मानसाविति मानसदोषभयशोकजनितौ। एतेन मानसत्वञ्चानयोर्न विरोधीभवति, अनयोर्लक्षणम् मतिदेशेनाह-तयो क्षणमित्यादिना ॥ १३॥
चक्रपाणिः-कस्मात् पुनर्वातातिसारलक्षणमनयोर्भवतीत्याह-मारुत इत्यादि। यस्मात् भय. शोकजनितोऽस मारुतः कारणं भवति तस्माद वातातीसारलक्षणानि भवन्तीति युक्तमित्यर्थः। न चानयोतिजन्यस्वेन वातजलक्षणयुक्तत्वेन वातजेनैव ग्रहणमिति वाच्यम्। यतोऽनयोर्वातजाद भिन्नापि चिकित्सा भविष्यति, वर्षणाश्वासनरूपचिकित्साभेदार्थ व्याधीनां भेदोऽभिधीयते। किञ्च लक्षणभेदोऽप्यत वातः शीघ्र हि परिकुप्यतीति इत्यनेनोक्तः। यतो भयशोकजेऽतीसारे शीघ्रकारी वायुर्भवतीति शीघ्र हि परिकुप्यतीति पदेनोच्यते न निदानान्तरं, समिपातातिसारे न भयशोको कारणत्वेनोक्तौ हेत्वन्तरसहितौ भस कारणे भवत इति। त्रिदोषजभयशोकजयोश्च यद्यपि तुरुयं
३८६
For Private and Personal Use Only