________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [कासचिकित्सितम् दद्यान्मनःशिलाकर्ष कर्षार्द्धश्च रसाञ्जनम् । कुड़वार्द्धश्च पिप्पल्याः स लेहः श्वासकासनुत् ॥ ६३ ॥
हरीतकीलेहः। श्वाविधां सूचयो दग्धाः सघृतक्षौद्रशर्कराः । श्वासकासहरा वर्हि-पादौ वा क्षौद्रसर्पिषा॥ एरण्डपत्रचारं वा व्योषतैलगुडान्वितम् । लिह्यादेतेन विधिना सुरसैरण्डपत्रजम् ॥ वार्ताकपिप्पलीद्राक्षा-पद्मकं क्षौद्रसर्पिषा। लिह्यात् त्रूषणचूर्णं वा पुराणगुड़सर्पिषा ॥ चित्रकं त्रिफलाजाजी-कर्कटाख्याकटुत्रिकम् । द्राक्षाश्च मधुसर्पियों लिह्यादद्याद गुड़ेन वा ॥ ६४॥ जीवन्तों मधुकं पाठां त्वक्क्षीरी त्रिफलां शटीम् ।
मुस्तैले पिप्पली द्राक्षां वे वृहत्यौ वितुन्नकम् ॥ हीना मृदिला श्लक्ष्णं पिष्ट्वा तस्मिन् यवकाथे पुराणगुइस्य षट्पलं दद्यात् । पत्तवावतरणकाले मनःशिलायाः कर्ष रसाञ्जनकर्षाद्धं पिप्पल्याः कुड़वार्द्ध चूर्ण प्रक्षिप्य लेहरूपमवतारयेत्। हरीतकीलेहः ॥ ६३॥
गङ्गाधरः-श्वाविधामित्यादि। शल्वकीकण्टका दग्धाः समशर्करा - सौद्राभ्यां लेहाः श्वासकासहराः । वहिपादौ जङ्घ द्वे वा दग्ध्वा क्षौद्रसपि पा लेहाः श्वासकासहराः । एरण्डेत्यादि। एरण्डपत्रं दग्ध्वा क्षारं कृला समांशव्योषचूर्णन मिश्रयिखा तैलगुडाभ्यां लिह्यात् । एतेन विधिना सुरसस्य तुलस्या एरण्डस्य च पत्राणि दग्ध्वा क्षारं कृला समव्योषचूर्णेन मेलयिखा तैलगुडाभ्यां लिखात् श्वासकासहरमिति। वार्ताकेत्यादि। वार्ताकादिकं चूर्णयिला क्षौद्रसर्पियों लिह्यात्। ऋषणचूर्ण वा पुराणगुइसर्पिषा लिह्यात् । चित्रकमित्यादि। द्राक्षान्तं चर्णीकृत्य मधुसर्पिभ्यां लिह्यादथवा समगुड़ेन मेलयिता अद्यात् ॥ ६४॥ चक्रपाणिः-एतेन विधिनेति व्योषतैलगुबान्वितं साधनीयम् । सुरसं मुविषाणाम् ॥१३॥६॥
For Private and Personal Use Only