________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६४
चरक-संहिता। पाण्डुरोगचिकित्सितम् यवेषु दशरात्रस्थं प्रोष्मे द्विः शिशिरे स्थितम् । पिबेत् तद् ग्रहणीपाण्डु-रोगार्शःशोथगुल्मनुत् ॥ मूत्रकृच्छाश्मरीमेह-कामलासन्निपातनुत् । वीजकारिष्ट एवैष आत्रयेण प्रकीर्तितः ॥ ३६॥
वीजकारिष्टः। धात्रीफलसहस्र द्वे पीड़यित्वा रसं भिषक् । चौद्राष्टभागं पिप्पल्याश्चूर्णार्द्धकुड़वायुतम् ॥ शर्कराईतुलोन्मिभं पक्षं स्निग्धघटे स्थितम् । प्रपिबेन्मात्रया प्रातर्जीणे हितमिताशनः॥ कामलापाण्डुहृद्रोग-वातास्मृग्विषमज्वरान् । कासहिकारुचिश्वासानेषोऽरिष्टः प्रणाशयेत् ॥ ३७॥
धावरिष्ठः। स्थिरादिभिः शृतं तोयं पानाहारे प्रशस्यते।
पाण्डूनां कामलार्तानां मृद्वीकामलकाद् रसः ॥३८॥ घृतभाजने कृता यवेषु यवराशिमध्ये ग्रीष्मे दशरात्रं स्थापयेत् शिशिरे द्विर्दशरात्रं विंशतिरात्रं स्थापयेत् । इह ग्रीष्मशिशिरयोयोः निर्देशात् वैशाखादयः षण्मासा ग्रीष्माः, शेषाः शिशिराः। वीजकारिष्टः ॥३६॥
गङ्गाधरः-धात्रीत्यादि। धात्रीफलानां गुड़कानां द्वे सहस्र कुट्टयिखा पीडयिता यावान् रसो लभ्यते तस्य रसस्याष्टमो भागः क्षौद्रस्य, पिप्पलीचूर्णमर्द्धकुड़वं द्विपलम्, शर्कराया अर्द्धतुलां दत्त्वा सर्वमेकीकृत्य स्निग्धे घटे पक्षं स्थितं जातमरिष्टं मात्रया प्रातः प्रपिबेदिति। पीते तस्मिन्नरिष्टे जीणे सति हितमिताशनः स्यात् । धारिष्टः ॥३७॥ । : गङ्गाधरः-स्थिरादिभिरित्यादि। स्थिरादिः शालपादिपञ्चमूलं तत्स एवार्थः। वीजकोऽसनः। व्याघ्रनखो नखीभेद एव। द्विः शिशिर इति विंशतिराखस्थितम् ॥ ३६॥
चक्रपाणिः-धात्रीत्यादौ धात्रीफलसहनद्वयस्य स्वरस एव ग्राह्यः ॥ ३७ ।। चक्रपाणिः कामलार्तानां मृद्धीकाम.लकीरसा पानाहारे प्रशस्यते इत्यर्थः ॥३८॥
For Private and Personal Use Only