SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६५२ Acharya Shri Kailassagarsuri Gyanmandir चरक संहिता | मञ्जिष्ठात्रिपलञ्चैवं त्रिद्रोणेऽपां विपाचयेत् । द्रोणशेषञ्च तच्छीतं मध्वार्द्धादकसंयुतम् ॥ एलामृणालागुरुभिश्चन्दनेन च रुषिते । कुम्भे मासस्थितं जातमासवं तं प्रयोजयेत् ॥ ग्रहणीं दीपयत्येष वृंहणोऽनिलरोगजित् । शोथ कुष्ठकिलासानां प्रमेहाणाञ्च नाशनः ॥ ५३ ॥ [ ग्रहणी दोष चिकित्सितम् मधूकासवः । मधूकपुष्पस्वरसं भृतमर्द्धक्षयीकृतम् । क्षौद्रपादयुतं शीतं पूर्व्ववत् सन्निधापयेत् ॥ तं पिबन् ग्रहणीदोषान् जयेत् सर्व्वान् हिताशनः । तद्वद् द्राचेच काश्मर्थ्य - स्वर सानासुतान् पिबेत् ॥ ५४ ॥ आसवाः । For Private and Personal Use Only मञ्जिष्ठायास्त्रिपलच एवं सर्व्वमपां त्रिद्रोणे द्विनवत्युत्तरशतशरावे पाचयेत् । द्रोणशेषं चतुःषष्टिशरावावशिष्टं तत् कथितं शीतं कृत्वा मधुनोऽर्द्धाढकमष्टशरावं तत्र दत्त्वा एलादिकल्केन घृतकुम्भोदरे रूषिते प्रलिप्ते मासं स्थापयेत् । मासस्थितं जातं भवति तमासरं तदन्नभोजनादनु पान प्रयोजयेत् । स च मधूकासवो ग्रहणीमित्याद्याशीः ॥ ५३ ॥ गङ्गाधरः-- अपरमासवमाह - मधुकेत्यादि । आर्द्र मधूकपुष्पं कुहयिता स्वरसः कार्य्यस्तं स्वरसं भृतं पक्कमर्द्धक्षयीकृतं शीतं यदा तदा तत्पक्कस्वरसस्य चतुर्थी मधु दत्त्वा पूर्ववत् एलादिकल्क रूपिते घृतकुम्भे मासं निधापयेत् । तं लघ्वनभोजनादनु पिबन ग्रहणीदोषान् सर्व्वान् जयेत् । अपरश्चासवमाह - तद्वदित्यादि । द्राक्षादीनां प्रत्येकं स्वरसान् तद्वदासुतान् पिबेत् । द्राक्षास्वरसं शृतमक्षयीकृतं शीतीकृतं तत्पादांशमधुयुतम् एलादिकल्कलिप्ते घृतकुम्भे मासं स्थापयेत् । ( द्राक्षासवः ) । एवमिक्षुस्वरसम् अर्द्धशृतं शीतं चक्रपाणिः - अर्द्धक्षयीकृतमिति पाकादर्द्धावशिष्टं कृतं पूर्व्ववत् सन्निधापयेदिति एलादिलिप्ते कुम्भे संस्थापयेत् । तद्वदिति एलादिलिप्रवृहत्कुम्भस्थान् ॥ ५३ ॥ ५४ ॥
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy