________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४०
चरक-संहिता। ग्रहणीदोषचिकित्सितम् पञ्चमूलाभयाजाजी-पिप्पलीमूलसैन्धवैः । विडङ्गाषणशटी-रास्नादारद्वय तम् ॥ शुक्तेन मातुलुङ्गस्य स्वरसेना कस्य च। शुष्कमूलककोलाम्बु चुक्रिका दाडिमस्य च ॥ तक्रमस्तुसुरामण्ड-सोवीरकतुषोदकः। कालिकेन च तत् पक्कमग्निदीप्तिकरं परम् ॥ शूलगुल्मोदरश्वास-कासानिलकफापहम् । सवीजपूरकरसं सिद्धं वा पाययेद घृतम् ॥ तैलमभ्यञ्जनार्थश्च सिद्धमेतः प्रदापयेत् । एतेषामौषधानां वा पिबेच्चूर्ण सुखाम्बुना ।। वातश्लेष्मावृते सामे कफे वा वायुनोद्धते। दद्याच्चूर्ण पाचनार्थमग्निसन्दीपनं परम् ॥ ३४ ॥
पञ्चमूलाद्य घृतं तैलं चूर्णश्च । गङ्गाधरः-पञ्चमूलेत्यादि। वृहत्पञ्चमूलादिक्षारद्वयान्तः कल्कै तात् पादिघृतसमानेन शुक्तेन मातुलुङ्गस्वरसेन आद्रकस्य च स्वरसेन। शुष्कमूलकादीनां मिलितानां काथेन घृतसमेन। तत्र अम्बु बालकम् । चुक्रिका चाङ्गेरी दाडिमलक्। तक्रेण च घृतसमेन मस्तुना सुरामण्डेन सौवीरकेण धान्याम्लन तुषोदकेन सतुषयवकृतेन काञ्जिकेन घृतसमेन तद घृतं पक्कमग्निदीप्तिकरमित्याद्याशीः। (पञ्चमूलादिघृतम् । ) सवीजपूरकरसं घृताच्चतुर्गुणेन मातुलुङ्गरसेन सह तैः कल्कैः तैश्च द्रवैः सिद्धं घृतं वा पाययेत् । पूर्वोक्ताशी। पञ्चमूलादिभिरुक्तरेतेः सिद्धं तैलमभ्यञ्जनार्थ प्रदापयेत्। इति। वीजपूरकखरसे च तः कल्कैस्तै वैश्च सिद्धञ्च तैलं शेयं तदनन्तरमेतैरित्युक्तखात् । (पञ्चस्वरसे मूलादितैलं वीजपूरकतलञ्च ।) एतेषामित्यादि। पञ्चमूलादीनां
चक्रपाणिः-पञ्चमूलाध शुक्तादितयोदशदवाणां प्रत्येक स्नेहसमत्वम् । सवीजपूरकरस. मित्यत्रापि पञ्चमूल्यादीनि कलकत्वेनेच्छन्ति। किंवा पूर्वमेव घृतं वीजपूररससंयुक्त पेयमित्यर्थः । सेलमित्यादौ एतैः पञ्चमूल्यादिभिः सिद्धं तलं तथा एतेषामेव कल्कोक्तानां पञ्चमूल्यादीनां
For Private and Personal Use Only