________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८७२
चरक-संहिता। [ अर्शश्चिकित्सित वाह्यायान्तु बलौ जातान्येकदोषोल्वणानि च । अांसि सुखसाध्यानि न चिरोत्पतितानि च ॥ २३ ॥ तेषां प्रशमने यत्नमाशु कुर्य्याद विचक्षणः । तान्याशु हि गुदं बद्धा कुर्य्याद बद्धगुदोदरम् ॥ २४ ॥ तत्राहुरेके शस्त्रेण कर्त्तनं हितमर्शसाम् । दाहं क्षारेण चाप्येके दाहमके तथाग्निना ॥ अस्त्वेतद् भूरितन्त्रेण धीमता दृष्टकर्मणा । क्रियते त्रिविधं कर्म भ्रशस्तत्र सुदारुणः॥ पुरत्वोपघातः श्वयथुगु दे वेगविनिग्रहः ।
आध्मानं दारुणं शूलं व्यथा रक्तातिवर्त्तनम् ॥ द्वभुजानां कृच्छववचनात् त्रिदोषजानामसाध्यखवचनाच्च। परिसंवत्सराणि चाशीसि खल्वेकदोषजान्येव वाह्यबलावपि कृच्छसाध्यान्याहुः ॥२२॥ ___ गङ्गाधरः-तर्हि कानि सुखसाध्यानि तान्याह-वाह्यायान्वित्यादि। पारिशेष्यादेतानि सुखसाध्यानि भवन्ति यानि वाह्यायां बलौ मातानि खल चेदेकदोषोल्यणानि भवन्ति, भवन्ति च न चिरोत्पतितानि संवत्सरानतीतानि तदा सुखसाध्यानि। द्वन्द्वजानां परिसंवत्सराणां कृच्छसाध्यववचनात् त्रिदोषाणामसाध्यलवचनाच्च । इत्यौनिदानमुक्तम् ॥२३॥
गङ्गाधरः-अथैषां साध्यानामर्द सां चिकित्सितमाह-तेषामित्यादि । तेषां साध्यानामर्शसां प्रशमने विचक्षण आशु यत्न कुर्यात् । किमर्थमाशु यत्न कुर्य्यादित्यत आह-तान्याशु हीत्यादि। हि यस्मात् तान्यांसि आशु गुदं बद्धा वद्धोदरं कुयुः ॥२४॥ ___ गङ्गाधरः-तत्राहुरित्यादि। तत्रासां प्रशमने एके वद्या अर्शसां कर्त्तनं शस्त्रेण छेदनं हितमाहुः। एके च वैद्याः क्षारेणार्शसां दाहं हितमाहुः। एके च वैद्या अग्निना दाहमर्शसां हितमाहुः। अस्त्वेतत् । दृष्टकर्मणा धीमता वैद्यन भूरितन्त्रेण त्रिविधमिदं शस्त्रेण कर्त्तनं क्षारण दाहोऽग्निना च दाह इति कर्म क्रियते। तत्र त्रिविधे कर्मणि सुदारुणो भ्रंशोऽस्ति। कस्को भ्रंश
चक्रपाणिः-शस्त्रेणत्यादिना चिकित्सामाह । कर्त्तनं छेदनम्। भूरितन्त्राणि अधीतानि येन सः
For Private and Personal Use Only