SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८३६ चरक-संहिता। उदरचिकित्सितम् स्विन्नाय बद्धोदरिणे मूत्रं तीक्ष्णौषधान्वितम् । सतैललवणं दद्यान्निरूहं सानुवासनम् ॥ परिस्र सीनि चान्नानि तीदाञ्चैव विरेचनम् । उदावर्त्तहरं कर्म कायं वातघ्नमेव च ॥ ४६॥ छिद्रोदरमृतै स्वेदात् श्लेष्मोदरखदाचरेत् । जातं जातं जलं स्राव्यमेवं तद यापयेद् भिषक् ॥५०॥ तृष्णाकासज्वरार्त्तन्तु क्षीणमांसाग्निभोजनम् । वर्जयेच्छासिनं तद्वच्छूलिनं दुर्बलेन्द्रियम् ॥५१॥ गङ्गाधरः--अथ बद्धोदरचिकित्सितमाह-स्विन्नायेत्यादि। बद्धोदरिणं स्वेदयित्वा तीक्ष्णौषधान्वितं स्नुकक्षीरादियुक्तं गोमूत्रं सतललवणान्वितं निरूह दद्यात्, तत आहारान्तेऽनुवासनश्च दद्यादिति सानुवासनं निरूह दद्यात् । परिस्रसीनीत्यादि। परिसर्चतः स्रसीनि विरेचनान्यन्नानि तीक्ष्णश्च विरेचनं दद्यात्। तथा वैद्य नोदावर्तहरं कर्म बद्धोदरे कार्य, वातघ्नमेव च कम्मे काय्यम् । इति बद्धोदरचिकित्सितमुक्तम् ॥४९॥ गङ्गाधर:-अथ क्षतोदरचिकित्सितमाह-छिद्रोदरमित्यादि। क्षतजच्छिद्रान्त्रोदरं स्वेदाइते श्लेष्मोरवदाचरेत् । जातं जातमित्यादि। छिद्रोदरे जातं जातं जलं वैदान स्राव्यम्। एवमेतत्प्रकारेण भिषक छिद्रोदरिणं काल यापयेत् । इति याप्यासाध्यच्छिद्रोदरचिकित्सितं कालयापनार्थमुक्तम् ॥१०॥ गङ्गाधरः-प्रत्याख्येयन्तु गत् तस्य लक्षणमाह-तृष्णेत्यादि। क्षीणमांसं क्षीणाग्निं क्षीणभोजनं तृष्णाद्या छिद्रोदरिणं वज्जयेत् । तद्वत् श्वासिनं शूलिनं दुबलेन्द्रियं छिद्रोदरिणं वर्जयेत् । इति छिद्रोदरचिकित्सितमुक्तम् ॥५१॥ चक्रपाणिः-निरूहस्योत्सर्गत एव सतेललवणत्वे सिद्धे सतैललवणमिति पदं तैललवणयोः अताधिकदानोपदर्शनार्थम् । बद्धच्छिद्रकफोदराणाञ्च यद्यप्यास्थापनं निषिद्धं तथापि तदेक. साध्यायामवस्थायां निरूहानुवासनमिह ज्ञेयम्। परिव सीनीत्यनुलोमनानि ॥ ४९ ॥ चक्रपाणिः-छिद्रान्त्रञ्चोदरं नृणामित्यत्र यद्यप्यसाध्यत्वमुक्तं तथापि तत्र प्रायःशब्दनिवेशात् असाध्यताव्यभिचारोऽपि दर्शितः ; तेनेह तच्चिकित्सोच्यते। उत्तरतापि च पिपीलिकादंशादिना छिद्रोदरस्योच्यते । तथाहि-हन्ति सर्बोदराज्येतत् चूर्णमित्यनेन सर्बोदरचिकित्सा वक्तव्या। अन्ये तु सोदरहन्तृत्वकथनं न पारमार्थिकम् । ऋते स्वेदादित्यनेन स्वेदस्य छिद्रोदरे उदककारकतया निषेधं दर्शयति । तृष्णेत्यादिना प्रत्याख्येयं छिद्रोदरमाह ॥ ५० ॥ ५ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy