________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२४
चरक-संहिता। [उदरचिफिसितम् पाकं गच्छेद रसस्तेभ्यश्छिद्रेभ्यः प्रस्रवेद वहिः।। पूरयन् गुदमन्त्रञ्च जनयत्युदरं ततः॥ २२ ॥
तस्य रूपाणि-तदधो नाभेः प्रायो वर्द्धमानमुदकोदरं स्याद् यथावलञ्च दोषाणां रूपाणि दर्शयति। अपि च आतुरः सलोहितनीलपीतपिच्छिलकुणपगन्ध्यामवर्च उपवेशते, * हिकाश्वासकासतृष्णाप्रमेहारोचकाविपाकदौर्बल्यपरीतश्च भवति । इत्येतच्छिद्रोदरमिति विदत् ॥ २३॥ अत्यशनेन वा पाकं गच्छेत्, तदान्त्रस्य तेभ्यश्छिद्रेभ्यस्तदन्त्रस्य रसः क्लदो वहिः स्रवेत्। स स्रवद्रसस्तु गुदमन्त्रञ्च पूरयन् ततः क्षतादुदरं जनयति । इति सहेतुक्षतोदरसम्माप्तिः ॥२२॥ - गङ्गाधरः-जस्य रूपाणीति क्षतोदररूपाणि। तद्यथा-तदधो नाभेः इत्यादि। तत् क्षतोदरं पायो नाभेरधः स्तात्। वर्द्धमानं पुनरुदकोदरं स्यात् । दोषाणां यथायलं रूपाणि दर्शयात। तेनातुरेण सलोहितादिरूपं वर्च उपवेश्यते त्यज्यते, हिक्कादिपरीतश्च भवति । इत्येतत् क्षतज छिद्रोदरमिति विद्यात् ॥२३॥
चक्रपाणिः-शर्करेत्यादिना क्षतीदरमाह-अभ्याहतस्यान्त्रं भिस्वेति योजना। पाकं गच्छेदिति भिन्नमेवान्त्रं पाकं गच्छति । बहिरिति अन्नं गुदञ्च वहिर्मागे पूरयन् पाकं गच्छत्, स एवं रसोऽन्सपाकरूपो व्याधिरूपतया ज्ञेयः ॥ २२ ॥
चक्रपाणि:--तदधो नाभेः प्रायोऽभिनिवर्तमानमिति अर्द्ध निवर्तते। द्रवस्योदरारम्भकस्य भधोगामित्वादकोदरं भवतीति उदरान्तरापेक्षया शीघ्रगतिर्भवतीत्यर्थः । उदकोदरमेवैतत् स्यात् । उदकोदरस्यैवेति वा पाठः। उदकोदरस्य रूपाणि दर्शयति, दोषाणाञ्च यथावलं रूपाणि दर्शयतीति योजना। यथाबलमिति वयोबलवान् दोषो भवति तस्स रूपाणि दर्शयति ॥ २३ ॥
. * इति तदधो नाभ्याः प्रायोऽभिनिवर्तमानमुदकोदरस्य च यथावलञ्च दोषाणां रूपाणि दर्शयत्यपि चातुरः स लोहितनीलपीतपिच्छिल कुणपगन्धामवर्च उपवेशते । इति पाठान्तरम् ।
For Private and Personal Use Only