________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७५६
चरक-संहिता। (अपस्मारचिकित्सितम् भार्गी वचा नागदन्ती श्वेता शतविषाणिका छ । ज्योतिष्मती नागदन्ती पादोक्ता मूत्रपेषिताः। योगास्त्रयोऽतः षड़ बिन्दून् पञ्च वा नावद्भिषक् ॥२४॥ त्रिफलाव्योषपीतद्रु-यवक्षारफणिज्झकैः । श्यामापामार्गकरजैः फलमूत्रे च वस्तजे। साधितं नावनं तैलमपस्माविनाशनम् ॥ २५ ॥ पिप्पली वृश्चिकाली च कुष्ठश्च लवणानि च। भार्गी च चूर्णितं नस्तः कायं प्रधमनं परम् ॥ २६ ॥ कयस्थां शारदान् मुद्गान् मुस्तोशोरयवांस्तथा। सव्योषान् वस्तमूत्रेण पिष्टा वर्तीः प्रकल्पयेत् ॥ गङ्गाधरः--भार्गीत्यादि । भार्गी वचा नागदन्तीत्येकं नस्यम् । श्वेता शतविषाणका चेत्येकं नस्य, श्वेतापराजिता वृहदजशृङ्गीति द्वयं द्वितीयं, ज्योतिष्मतो नागदन्ती चेत्येकं तृतीयं नस्यम् । इति त्रयो योगा गोमूत्रपेषिताः । अतः षड़ बिन्दून् पञ्च विन्दुन वापस्मारिणं नावयेत् नारनं कारयेत् ॥ २४॥
गाधरः-त्रिकलेत्यादि। त्रिफलादीनां कल्कैः पादिकवस्तजे. मूत्रे चतुगुणे साधितं तिलतैलं सार्षपतैलं वा नावनमपस्मारविनाशनम्। तत्र पीतद्रर्दारहरिद्रा। फणिज्झको जम्बीरो मातुलुङ्गप्रभेदः। श्यामा त्रित् । एषां फलैः ॥२५॥
गङ्गाधरः-पिप्पलीत्यादि। वृश्चिकाली विच्छाटीति लोके। लवणानि पश्च। एतेषां चणं नस्तः काव्यमपस्मारविनाशनं परम्। प्रधमनं नस्यप्रभेदः ॥२६॥
गङ्गाधरः कयस्थामित्यादि। कयस्थादीनि समांशेन नीखा वस्तमूत्रेण पिष्ट्वा वर्तीः प्रकल्पयेत् । तया वत्या वस्तमूत्रेणेव घृष्टयाञ्जनं नत्रे दद्यात् ।
चक्रपाणिः--भार्गीत्यादौ नागदन्ती काष्ठपाटला, श्वेता श्वेतापराजिता, श्वेता विषाणिका शतावरी ॥ २४ ॥
चक्रपाणिः-त्रिफलेत्यादौ पतिद् देवदारु। लवणानि सैन्धवादि पञ्च किंवा लवणवर्गोक्तानि अथालाभं ग्राह्याणि ॥ २५ ॥ २६॥
चक्रपाणिः-कायस्थानित्यादौ शारदान् मुनानिति हारीतमुद्गाः ; ते हि प्रायः शरदि * श्वेता विपाणिका इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only