________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९म अध्यायः !
चिकित्सितस्थानम् ।
२७१६
सम्पूरण मन्दविचेष्टितस्य सोष्मा कफो मर्म्मणि संप्रवृद्धः । बुद्धिं स्मृतिञ्चाप्युपहत्य चित्तं प्रमोहयन् सन् जनयेद् विकारम् ॥ वाकचेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियता च निद्रा । छर्दिश्च लाला च बलञ्च भुक्ते नखादिशौक्ल्यञ्च कफात्मकस्य ॥६ यः सन्निपातप्रभवो हि घोरः सर्वैः समस्तैः स तु हेतुभिः स्यात् । सर्व्वाणि रूपाणि विभर्त्ति तादृग्विरुद्ध भैषज्य विधिर्विवज्र्ज्यः ॥१०
गङ्गाधरः- कफजोन्मादस्य सहेतुलिङ्गमाह – सम्पूरणैरित्यादि । सम्पूरणद्रव्याणि दविदुग्धादीनि । दधिदुग्धादिभिर्भु मन्द विचेष्टितस्याल्पचेष्टावतः सोमा सपित्तः कफः प्रवृद्ध इत्याहुरेके, सपित्तेन कफेनोन्मादस्तु यो जन्यते स हि कफोन्माद उच्यते । अन्ये तु शक्तिरुष्मा उत्कृष्टशक्तिः कफ इत्याहुः । द्वयमध्ये साधु पृथगदोषभवाभावप्रसङ्गात् । सर्व्वे हि पाञ्चभौतिकस्तेन श्लेष्मा गुरुशीतमृदु स्निग्धमधुर स्थिरपिच्छिलगुणोऽपि स्वारम्भकतेजस उद्रेकेण शीतविपय्येयेण खलक्ष्मणा सहितः प्रवृद्धो भवति न तून्मादरोगे शीतगुणेन प्रवद्धते कफः । शीतगुणानव्यतिरेकेण प्रवृद्धः श्लेष्मा सोमा भवति, तदारम्भकतेजस उद्रेकात् । इति सोष्मा कफः प्रवृद्धः सन् मर्म्मणि प्राधान्यात् तु हृदये स्थिता मनो दूषयित्वा बुद्धिं स्मृतिश्चाप्युपहत्य प्रमोहयन् सन् विकारमुन्मादं जनयेत् । तत उन्मत्तस्य मन्दमल्पं वाक्चेष्टितं नारीषु विविक्ते विरले स्थितौ मियता मुक्ते बलमुन्मसताधिक्यं नखनयनमूत्रपुरीषशरीरस्य शुक्ला भासश्च कफात्मकस्योन्मादस्य लिङ्गमित्यनुवृत्तेः ॥ ९ ॥
गङ्गाधरः -- सन्निपातजस्य सहेतु लिङ्गमाह-- यः सन्निपातेत्यादि । य उन्मादः सन्निपातप्रभव उक्तः स तु वातादिप्रत्येकदोषाणां समस्तैस्त्रिदोष - हेतुभिः स्यात् । स हि घोरो भयानकः । सर्व्वाणि त्रयाणां वातादिजानां यानि रूपाणि तानि सर्व्वाणि रूपाणि बिभर्त्ति } तादृक् समस्त सर्व्वहेतुजः
चक्रपाणिः - सम्पूरणैरित्यादिना कफोन्मादमाह । सोष्मा कफ इति सह उष्मणा कफ जम्मादं करोसि न केवल इति । उन्मादकरणे कफस्य ऊष्मसहितत्वरूपं स्वभावं दर्शयति । किंवा उष्मशब्देन वीर्य्यं शक्तिरूपमुच्यते, तेन सोष्मा कफ इति उत्कृष्टशक्तिकः कफ इत्यर्थः । मर्म्मणीति हृदये । नारीविविक्तयोः प्रियता नारीविविक्तप्रियता, विविक्तं विजनम् ॥ ९ ॥
चक्रपाणिः - य इत्यादिना सान्निपातिकमाह । सर्वैरित्युक्तोऽपि प्रत्येकं सर्व्वहेतूनां जनवर
For Private and Personal Use Only