________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६००
चरक-संहिता। गुल्मचिकित्सितम् रौधिरस्य तु गुल्मस्य गर्भकालव्यतिक्रमे। स्निग्धखिन्नशरीरायै दद्यात् स्निग्धविरेचनम् ॥ १०३ ॥ पलाशक्षारपात्रे द्वे द्वे पात्रे छ तैलसर्पिषोः । गुल्मशैथिल्यजननी पक्त्वा मात्रां प्रदापयेत् ॥ १०४॥
गङ्गाधरः-एतल्लक्षणद्वयं वातपित्तकफसन्निपातगुल्मानामसाध्यत्वपरं न तु रौधिरगुल्मस्येति ज्ञापनाय अत ऊ रोधिरगुल्मचिकित्सितमाहगर्भकालव्यतिक्रमे इति। ननु गर्भावस्थानकालस्तु द्वादशमासः, परन्तु वैकारिकगर्भस्य न कालनियमः। मुश्रुतेऽप्युक्तं-"नवमदशमैकादशद्वादशमासेषु प्रसूयतेऽतः परन्तु वैकारिक विद्यात् ।” अरिमंश्चाध्याये स्वयमुक्तं "मासे व्यतीते दशमे चिकित्स्यः” इति कुतो ज्ञातव्यो गर्भकालव्यतिक्रमः ? उच्यते, गर्भलक्षणव्यतिक्रमे निश्चितीकृतस्य रोधिरस्य गुल्मस्य गर्भाशङ्का यदि स्यात् तदा तदाशङ्कायां गर्भप्रसवकालात्ययापेक्षा कर्त्तव्या, नास्ति हि गर्भलक्षणाशङ्का स्तनमण्डलौष्ठपुटकृष्णखस्तन्यादीनां सामान्येऽपि करचरणादिभिरडैनिःशूलं स्पन्दनात् व्यतिक्रमेऽङ्गावयवकरचरणादिभिविना पिण्डाकारेण सशूलस्पन्दने सति गर्भाशङ्का नास्ति, तस्माद् गर्भाशङ्कानिरासार्थ नैतद वचनम्। परन्तु गर्भप्रसवकालस्तु प्रायेण दशमो मासस्तत्कालस्य व्यतिक्रमे व्यतीते सति सुख साध्यत्वं रक्तगुल्मस्य भवति । तदा स्निग्धखिन्नशरीरायै स्त्रियै स्निग्धविरेचनमेरण्डतैलपयोघृतादिमिश्रं विरेचनमौषधं दद्यात् ॥१०३।। __ गङ्गाधरः-पलाशक्षारेत्यादि । स्निग्धविरेचनानन्तरम्। पलाशतरूं दग्ध्वा भस्मीकृत्य क्षारं षड़गु तोये चतुगणे वा एकविंशतिवारान् परिस्राव्य तस्य क्षारोदकस्य द्वे पाद्वात्रिंशच्छरावमानं वैगण्यात तेलसपिषोश्च मिलिखा द्वे पात्रे आढ़ कद्वयं गुप्याद द्वात्रिंशच्छरावं पक्त्वा स्नेहे शिष्टेऽवतायं तस्य मात्रां दोषाग्निव्याधिवलापेक्षिणीं दद्यात् गुल्मशथिल्यजननार्थम् ॥१०४॥
चक्रपाणिः-गर्भकालव्यतिक्रमे इति दशममासरूपस्य गर्भकालस्य व्यतिक्रमे ॥१०३॥ चक्रपाणिः-क्षारपादे इति क्षारोदकपादद्वयम्। मातामिति योग्यप्रमाणमुक्तम् ॥ १०४ ॥
* क्षारपादे द्वे द्वे पादे इति चक्रतः पाठः।
For Private and Personal Use Only