________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ]
चिकित्सितस्थानम् ।
पिबेदेरण्डतैलं वा वारुणीमण्ड मिश्रितम् । तदेव तैलं पयसा वातगुल्मी पिवेन्नरः । श्लेष्मण्यनुबले पूर्व्वं हितं पित्तानुगे परम् ॥ ६३ ॥ साधयेच्छुद्धशुष्कस्य लसुनस्य चतुःपलम् । चीरोदकेऽष्टगुणिते चीरशेषञ्च ना पिबेत् ॥ वातगुल्ममुदावत्तं गृध्रसीं विषमं ज्वरम् ।
हृद्रोगं विद्रधिं शोथं साधयत्याशु तत् पयः ॥ ६४ ॥
तैलं प्रसन्ना गोमूत्रमारनालं यवाग्रजम् । गुल्मं जठर मानाहं पीतमेकत्र साधयेत् ॥ ६५ ॥
२५८३
लसुनक्षीरम् ।
तैलपञ्चकम् ।
गङ्गाधरः - पिवेदित्यादि । तदेव तैलमेरण्डतैलम् । अस्य योगद्वयस्य दोषभेदे व्यवस्थामाह - श्लेष्मणीत्यादि । अनुबलेऽनुबन्धे श्लेष्मणि वातगुल्मे पूर्व्व वारुणीमण्डमिश्रितमेरण्डतैलं हितम् । पित्तानुगे वातगुल्मे परं पयसा सरण्डतैलं हितमित्यर्थः ।। ६३ ।
For Private and Personal Use Only
गङ्गाधरः- साधयेदित्यादि । शुद्धशुष्कस्य वङ्मध्यगाङ्क ररहितस्य ततः पिष्ट्वा आतपे शुष्कस्य लसुनस्य चतुःपलमस्माच्चतुःपलादष्टगुणिते क्षीरोदके दुग्धस्य षोड़शपलं जलस्य चेति क्षीरोदके क्षिप्त्वा साधयेत् पचेत् । क्षीरशेषं ना पुमान् पिबेत् । क्षीरं षोड़शपलं जलञ्च षोड़शपलम् । इति लसुनक्षीरम् ॥ ६४॥
गङ्गाधरः – तैलमित्यादि । तैलं तिलतैलम् । प्रसन्ना मद्यभेदः । यवाग्रजं ज्ञेयम् । पूर्व्वमिति पूर्व्वयोगोक्तमे रण्डतैलम् । परमित्युत्तरयोगोतमेरण्डतैलं साधयेदित्यर्थः ॥ ६०-- ६३॥
पयोयुक्तं
चक्रपाणिः - साधयेदित्यादौ निस्तुषीकृतस्य शुद्धशुष्कस्य । उदकाष्टगुणिते क्षीरे इत्यस भागेऽनुके समानविधानमिति वचनात् क्षीरं चतुर्गुणं षोड़श पलानि जलञ्च तथा । क्षीरावशिष्टम् । गुल्मस्य बहुभेषजसाध्यतया षोड़शपलक्षीरमानं भवति । क्षीररसोनयोश्च यद्यपि सहोपयोगो विरुद्धस्तथापि व्याधिनाशमहिना महर्षिवचनादविवादः ॥ ६४ ॥
चक्रपाणिः - तैलं प्रसन्नेत्यादौ यौगिकत्वात् जतूकर्ण संवादादे रण्डतैलं ज्ञेयम् । उक्त हि-आरनालमूतक्षारैः संयोज्य तैलमैरण्डमित्यादि ॥ ६५ ॥