________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः]
चिकित्सितस्थानम्।
२४५७ तृष्यते सलिलञ्चोष्णं दद्याद वातकफज्वरे।
मद्योत्थे पैत्तिके चाथ शीतलं तिक्तकः शृतम् ॥ रस इति स्वरसादिकषायाणां संशमनानां नवज्वरे प्रतिषेधात् तोयपेयादिसाधने शुण्ठ्यादीनां कदादिरसानामपि प्रयोगाच्च तातिरिक्तव्यञ्जनादिरूपेण प्रयोगे तिक्तको रसो दोषपाचन इत्यर्थः। सम्यग्लविते बालवृद्धादिषु च नवज्वरे व्यञ्जनोपयोगसम्भवात् । दोषाणामविपकानामिति दोषाणाम् अविपकत्वं सामरससम्बन्धवत्वम्। तस्य पाचनानि आमरसपाकेन दोषपाककराणि। तरुणे ज्वरे इति दोषाणामपक्कखानपायेऽपि सन्निपातन्वरे,तथान्यत्र ज्वरे, चास्तब्धे सामे सप्ताहं यावत्तरुणखम्। अष्टाहावधि मध्यखादि । तत्र दोषपाचनानि न केवलं लङ्घनादीनि स्वरसकल्कादीन्यपि भवन्तीति तरुणे ज्वरे लङ्घनादीन्येव पाचनानि नान्यानीति अवधारणार्थमविपकानां दोषाणामित्युक्त्वापि पुनस्तरुणे ज्वरे इत्युक्तम् । तेनेदं ज्ञापितं “सप्ताहात् परतोऽस्तब्धे सामे स्यात् पाचनं हितम् । निरामे शमनं स्तब्धे सामे नौषधमाचरेत्” इति। अत्र पाचनं यथोक्तं पाचनरूपं स्वरसशृतादिकं न तु लङ्घनादिकमिति, शमनं स्वरसभृतादिकमिति ॥ ८२॥
गङ्गाधरः-ननु नवज्वरे यदि तृष्णा स्यात् तदा किं लङ्घनविशेषं पिपासानिग्रहं कुर्यादित्यत आह-तृष्यते इति। उष्णमिति काथ्यमानन्तु यत् तोयं निष्फेनं निम्मेलीकृतम्। भवत्य वशेषन्तु तदुष्णोदकमुच्यते इत्यग्निवेशवचनाद वशिष्टं अहिमं स्पर्शतो यजलं वत्तेते, तज्जलं वातकफाभ्यां व्यस्तसमस्ताभ्यां जाते ज्वरे दद्यात्। मद्योत्थे ज्वरे पैत्तिके च ज्वरे तिक्तकैस्तिक्त रसद्रव्यैः शृतमविशिष्ट पक सलिलं तृष्यते दद्यात् पातुमिति शेषः। अत्र सलिलमिति वचनेन तोयसंस्कारे द्रव्यजलयोर्मानं वृद्धवैद्या वदन्ति। “यदप्सु शृतशीतासु षडङ्गादि प्रयुज्यते। कर्षमात्रं ततो द्रव्यं साधयेत् प्रास्थिकेऽम्भसि" इति। अत्र मद्योत्थे ज्वरे मद्यकृतपित्तजखात् पत्तिकेऽन्तर्भावेऽपि पृथगुक्त्या इति । 'अविपक्कानां दोषाणाम्' इति कृत्वापि 'तरुणे ज्वरे' इति यत् करोति, तेन अष्टाहादूद्धम् अवरुणे ज्वरे अपक्केषु दोषेषुप्राधान्येन कपायपानं पाचनमधिकृतम्, न लङ्घनादय इति दर्शयति ॥४२॥ . चक्रपाणिः-लङ्घनादिकाले एव अवस्थाविशेषे देयं जलमाह-तृष्यत इत्यादि। वातकफज्वर इति वातज्वरे कफज्वरे वातकफज्वरे च। मद्योत्थे कफादिज्वरेऽपि शीतलं जलं देयम् । तिक्तकैः शृतमिति वक्ष्यमाणमुस्तादिभिः शृतम्। उभयमित्युष्णं तथा तिक्तकश्तशीतञ्च ।
For Private and Personal Use Only