________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४५०
चरक संहिता। (ज्वरचिकित्सितम् : सन्तापमधिकं देहे जनयन्ति नरस्तदा।। भवत्यत्युष्णसर्वाङ्गो चरितस्तेन चोच्यते॥ स्रोतसां संविबद्धत्वात् स्वेदं ना नाधिगच्छति। खस्थानात् प्रच्युते चाग्नौ प्रायशस्तरूणे ज्वरे ॥७७॥ अरुचिश्चाविपाकश्च गुरुत्वमुदरस्य च। हृदयस्याविशुद्धिश्च तन्द्रा चालस्यमेव च ॥
पुरीषमूत्रस्वेदादिवहानि वानि रुद्धा उल्वणाः स्वमानतोऽधिकमानास्त दोषाः केवलं कृत्स्न देहं संयाताः सङ्गताः सन्तः देहेऽधिकं सन्तापं जनयन्ति, नरस्तु खलु तदात्युष्णसङ्गिो भवति ; तेन हेतुना ज्वरित एव स नर उच्यते। इति व्याधीनां नियतस्वस्वलक्षणेनानुमानं स्यात्। अधिकदोषेण ह्यनुमानश्च भवत्येव । यद्धि लक्षणं व्याध्यन्तरे चानुगतं तेन प्रतिनियतसन्तापनिद्रानाशादिलक्षणसहचरितेन ज्वरानुमानाव्याघातात्। यदा हि तन्मात्रमेव लिङ्गं भवति न च यावद्विशिष्टं चिह्नमुत्पद्यते न तावद्विशिष्टव्याधित्वेनानुमानमुपपद्यते, इति तदुपदेशश्च दोषबलाबलावधारणार्थ कृत्स्नाकृत्स्नलक्षणशानार्थञ्च चिह्न कााकातयाद्धि साध्यासाध्यभावज्ञानं भवति । अत एवोक्तं “लिङ्गञ्चैकमनेकस्य तथैकस्यैकमुच्यते। बहून्येकस्य च व्याधेर्बहूनां स्युर्बहूनि च ॥” इति निदानस्थाने। स च ना ज्वरितो नरः स्रोतसां संविबद्धवात् तरुणे ज्वरे प्रायशो न स्वेदं घर्ममधिगच्छति । प्रायश इत्यनेन पित्तादिज्वरे स्वेदाधिगमन भवतीति ख्याप्यते॥७७॥ ___ गङ्गाधरः-इति। पृथग भिन्नस्य चाकृतिमिति प्रश्नोत्तरमुक्त्वा लिङ्गमामस्य भगवन् वक्तुमर्हसीति प्रश्नोत्तरमाह। तत्र ज्वरस्य सम्पाप्तिमन्तरेण आमताशानं न सम्पद्यत इत्यतः पूर्व ज्वरसम्प्राप्तिमुक्त्वा तरुणज्वरलक्षणमाह-अरुचिः इत्यादि। अग्नौ तज्जाठरामौ स्वस्थानात् पक्तिस्थानात् प्रच्युते सति दुब्बल अरुचिस्त्वस्य भवति । वहिप्रबलत्वे हि प्राणिभ्य आहारो रोचते एवं विपच्यते च
प्राहयति। किंवा ज्वरसामान्यसम्प्राप्तिप्राप्तपित्तोष्माणं निर्देशयति। सर्चत हि ज्वरे पित्तमवश्यं भवति, यहुक्तम्- "उष्मा पित्तादृते नास्ति ज्वरो नास्युष्मणा विना" इति। केवलमिति समस्तम्। स्वेदं ना नाधिगच्छतीत्यक्ष प्राय इति योज्यं, कचिज ज्वरे स्वेदस्याप्यभिहितत्वात् ।
For Private and Personal Use Only