SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४३८ चरक-संहिता। [ज्वरचिकित्सितम् हेतुभिर्लक्षणश्चोक्तः पूर्वमष्टविधो ज्वरः। समासेनोपदिष्टस्य व्यासतः शृणु लक्षणम् ॥ ४६॥ लोमहर्षश्च दाहश्च पर्वभेदः शिरोरुजा। कण्ठास्यशोषो वमथुस्तुणा मूर्छा भ्रमोऽरतिः। खप्ननाशोऽतिवाक् जृम्भा वातपित्तज्वराकृतिः॥४७॥ शीतको गौरवं तन्द्रा स्तमित्यं पर्वणाञ्च रुक्। शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्तनम् । सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः॥४८॥ गङ्गाधरः-अथोद्दिष्टं भिन्नः कारणभेदेन पुनरष्टविधो ज्वर इति तदुदाहरति-हेतुभिरित्यादि। पूर्व निदानस्थान। वातपित्तकफानां विस्तरेण 'ज्वरकरहेतूनुक्त्वा लिङ्गान्युक्त्वा द्वान्द्विकसन्निपातानां लिङ्गानि यथोक्तानां वातजादिज्वरीलङ्गानां मिश्रीभावविशेषदर्शनात् द्वन्द्विकमन्यतम ज्वरं सानिपातिकं वा विद्यादित्यादि सङ्ग पेण प्रोक्तं समासनोपदिष्टस्य द्वन्द्वसान्निपातिकस्य ज्वरचतुष्टयस्य व्यासतो लक्षणं शृण। आगन्तोश्च संक्षपणोपदिष्टस्य च लक्षणं शृणु। पृथगजानां लक्षणानि तु न वक्ष्याम इति भावः ॥४६॥ गङ्गाधरः-लोमहर्ष इत्यादि। वातपित्तयोविकृतिविषमसंयोगाल्लोमहर्षादीनि लिङ्गानि भवन्ति न खन्यस्मिन् वातपित्तजव्याधो॥४७॥ . गङ्गाधरः-शीतक इत्यादि। शीतकः शीतम्। स्वेदाप्रवत्तेनं स्वेदस्य आ समन्तात्कारेण प्रवर्तनमतिस्वंद इत्यर्थः । विकृतिविषमसमवायेन वातकफयोः संयोगात् स्वस्खलक्षणादधिकलिङ्गानि हि भवन्ति। हारीतऽपि “शिरोग्रहः स्वेदभवश्च कासः” इति दृश्यते । मध्यवेगो नातितीक्ष्णो नातिमृदुः॥४८॥ चक्रपाणिः-सम्प्रति अष्टविधज्वराकृतो वक्तव्यमाह-हेतुभिरित्यादि। हेतवोऽपि ज्वरविशेषगमकत्वेनाकृतिरूपा भवन्त्येवेति कृत्वा हेतुकथनमपि यत् कृतं तदप्युचितम्। पूर्वमिति निदाने, “समासेनोपदिष्टस्य” इत्यादिना ये निदाने द्वान्द्विकसान्निपातिकागन्तवः समासेनोक्ताः, तेषामिह विस्तरेण लक्षणं शृष्विति । ये पुनरेकदोषजन्या वातज्वरादयः, ते तत्रैव प्रपञ्चेनोक्ता इति नेह पुनर्वक्तव्याः। भ्रमो येन चक्रस्थितमिवात्मानं मन्यते ; किंवा भ्रमो भ्रान्तिः। शीतक: For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy