________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८१६
चरक-संहिता। ( उत्तरवस्तिसिद्धिः प्रयुक्तविपरीतगुणर्भेषजः साध्यसम्मता विकारा न निवर्तन्त इत्यथसाधकं भवतीति। सुश्रुते च-यदन्यदुक्तमन्याथसाधकं भवति स हेवथः। यथा मृपिण्डोद्भिः प्रक्लियते तथा माषमुद्प्रभृतिभिव्रणः पक्लियत इति ॥०॥ अर्थः पदस्य चेति पदार्थो नाम तन्त्रयुक्तिः सा, योऽयोऽभिहितः सूत्रे पदे वा। पदार्थस्वनेकस्तत्र योऽथैः पूर्वापरयोगसिद्धो भवति सोऽथों ग्राह्यः। यथा-गुणाः गुणाश्रया नोक्ता इति । तत्र गुणशब्दः प्रकृतिभूतरूपरसादिषु सप्तदशसु वत्ते तत्काय्यश्वेतपीतादिषु च वत्तेते। तत्र गुणा अपि विभाव्यन्ते गुणेनापि । यथा-षड़साः पयसोऽधिक इक्षुरसे मधुर इत्येवमादि। प्रकृतिगुणाश्रयाः कारय गुणा दृश्यन्ते। तत्र गुणा गुणाश्रया नेति यदुच्यत तत् काय्यगुणाश्रयाः कार्यगुणा न भवन्तीति । सुश्रुते च-योऽर्थोऽभिहितः सूत्रे पदे वा स पदार्थः। अपरिमिताश्च पदार्थाः। यथा-स्नेहस्वेदाञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणामर्थानामुपपत्ति श्यते, तत्र योऽर्थः पूर्वापरयोगसिद्धो भवति स ग्रहीतव्यः। यथावेदोत्पत्तिमध्यायं व्याख्यास्याम इत्युक्ते सन्दियते बुद्धिः कतमस्य वेदस्यायमुत्पत्तिं विवक्षुरिति । ऋग्वेदादयस्तु वेदास्तत्र पूर्वापरयोगमुपलभ्य विद्विचारणे विविन्दन्तीत्येतयोश्च धाखोरनेकार्थयोः प्रयोगः पश्चात् प्रतिपत्तिभवति। आयुर्वेदोत्पत्तिमयं विवक्षुरित्येवं पदाथैः ।।०॥ प्रदेश इति । प्रदेशो नाम तन्त्रयुक्तिः सा, यत् प्रकृतस्यातिक्रान्तेन साधनम् । यथा-अतिव्यवायशीलानां शुक्रमांसबल. प्रदाः । नारीणामप्रजातानां नराणाश्चाप्यपत्यदाः इति । इत्येते वस्तयः खल्वति व्यवायशीलानां शुक्रादिप्रदास्ते चाप्रजातानां नारीणामपत्यदा इति। सुश्रुते च-प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः। यथा-देवदत्तस्यानेन शल्यमुतं तस्माद यादत्तस्याप्ययमेवोद्धरिष्यतीति ॥०॥ उद्देशो नाम तन्त्रयुक्तिः सा, यत् समासकथनम्। यथा-सामान्यश्च विशेषञ्च गुणान् द्रव्याणि कम्मे च। समवायश्च तज्ज्ञाबा तन्त्रोक्तं विधिमास्थिता इति । मुश्रुते च-समासकथनमुद्देशः । यथा शल्यमिति ॥०॥ निर्देश इति। निद्दशो नाम तन्त्रयुक्तिः सा, यद विस्तरेणोच्यते । यथा-खादीन्यात्मा मनः कालो दिशश्च द्रव्यसंग्रहः । इत्येव मादि। मुश्रुते च-विस्तरवचनं निर्देशः। यथा-शारीरमागन्तु चति ॥१॥ वाक्यशेष इति। वाक्यशेषो नाम तन्त्रयुक्तिः सा, येन पदेनानुक्तेन वाक्यं विवरणम् । यथा-हेतुलिझौषधस्य पुनः प्रपञ्चनम् । वाक्यशेषो नाम यस्यार्थेन वाक्येषु यदगम्यमानतथा पूर्तये पूरणम् । यथा प्रवृत्तिहेतुभावानामित्यशास्तीति पदं पूर्यते। तथा जाङ्गलजै रसैरिपत्र मांसशायः पूर्णते। वाक्यवत् पदाः शेषाश्च कियन्ते येऽनिवेशिता अपि प्रतीयन्ते । प्रयोजनं नाम
For Private and Personal Use Only