________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः। अथातो वस्तिसूत्रीयसिद्धिं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ कृतक्षणं शैलवनस्य रम्ये स्थितं वनेशायतनस्य ® पाये।
महर्षिसङ्घर्तृतमग्निवेशः पुनर्वसुं प्राञ्जलिरन्वपृच्छत् ।। वस्तिनरेभ्यः किमवेक्ष्य दत्तः स्यात् सिद्धिमान् किम्मयमस्य नेत्रम्। कोहलमाणाकृति किंगुणञ्च केषाञ्च किंयोनि गुणश्च वस्तिः ॥ निरूहकल्पः प्रणिधानमात्रा स्नेहस्व का वा शमने विधिः कः। के वस्तयः केषु हिता इतीदं श्रुत्वोत्तरं प्राह वचो महर्षिः ॥ २॥
गङ्गाधरः-अधाध्यायोद्देशक्रमात् वस्तिसूत्रीयां सिद्धिमाह-अथात इत्यादि। सर्व पूव्वद व्याख्येयम् ॥१॥ · गाधरः-कृतक्षणमित्यादि। शलवनस्य हिमवत्पर्वतवनस्य बनेशायततस्य वनस्पतीनामायतनस्य रम्ये पार्श्वे स्थितम् । यदन्वपृच्छत् तदाह
चक्रपाणिः-पूर्वाध्याये वमनादिविषयमोपोयातिकमभिधाय उपकल्पनीयाध्यायाभिहितइस्तिकपनायाः अपने नाभिधामाथै वस्तिसूतीयसिद्धिरूच्यते। वस्सेरितिकर्तव्यताभिप्रायसूत्रमधिकृत्य कृता सिद्रिर्वस्तिसूत्रीयसिद्धिः ॥ १॥ - पाणि:-धनेशायतनस्येति हिमालयस्य । वस्तिनरेभ्य इत्यादयो दश प्रश्नाः । नेवं नलिका । किंयोनिगुणश्च वस्तिरित्यक्ष वस्तिर्वस्तिपुटकः, योनिः प्रभवस्थानम् । स्नेहस्य केति अनुवासनस्य का कस्य प्रणिधानमान्ना, भनुवासनस्य चात प्रपञ्चोऽप्यभिधातव्यः, तेन अनुवासनस्य का कम मात्रेति प्रश्नीऽस बोद्धव्यः, यदा तु स्नेहस्य वा का इति पाठः, तदा स्नेहस्य निरूहविनदीयमानस्य को विधिरित्यर्थः, स चोत्तरग्रन्थेन सङ्गतार्थ एव। के वस्तयः केषु हिता इति केभ्यः पुरुषेभ्यः किंयोनयो हिता वस्तय इत्यर्थः ॥२॥ ..
समस्येति शामवनस्येति च चक्रसम्मतः पाठः। ...
For Private and Personal Use Only