________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६८
चरक-संहिता। [ वाजीकरणपाद अथातो माषपर्णभृतीयं वाजीकरणपादं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ माषपर्णभृतां धेनु गृष्टिं पुष्टां चतुःस्तनीम् । समानवर्णवत्साश्च जीववत्साञ्च बुद्धिमान् ॥ रोहिणीमथवा कृष्णामूर्द्धशृङ्गीमदारुणाम् । इक्ष्वादामर्जुनादां वा सान्द्रक्षीरश्च धारयेत् ॥ केवलन्तु पयस्तस्याः शृतं वाशृतमेव वा। शर्करामधुसपिभिर्युक्तं तद् वृष्यमुत्तमम् ॥२॥
इति वृष्यकेवलक्षीरपयोगः । गङ्गाधरः-अथासिक्तक्षीरिकवाजीकरणपादव्याख्यानानन्तरमतो वाजीकरणाधिकारात् हेतोर्माषपर्णभृतीयं वाजीकरणपादमाह-अथात इत्यादि। माषपर्णभृतीयमिति माषपर्णभृतामिति पदं पादादौ प्रयुक्तं तदधिकृत्य कृतं वाजीकरणपादं व्याख्यास्यामः। शेषं पूर्ववत् ॥१॥ . गङ्गाधरः-माषपर्णभृतामित्यादि। माषपर्णभृतां धेनुमिति माषाणां पर्णः पत्रता माषपर्णाहारेण पालितां धेनुपुष्टां न तु कृशां, गृष्टिमेकवारप्रसूता प्रथमप्रसूतामित्यथः। चतुःस्तनौं न तु न्यनातिरिक्तस्तनीम्, समानवर्णवत्सां रोहिणी लोहितवर्णामथवा कृष्णवर्णामदारुणां दुर्दान्तवरहितां नातिस्वल्पनातिहच्छरीराञ्च, ऊर्द्धशृङ्गी न खितरथाशृङ्गीम्, इक्ष्वादाम् इक्षुदण्डभक्षाम् अज्जुनादामर्जुनाख्यवृक्षपर्णादिभक्षाश्च, सान्द्रक्षीरं घनदुग्धं धारयेत् दुह्यात् । गृष्टयादिलक्षणा धेनुर्माषपर्णाहारेण इक्षुदण्डाहारेण वा अर्जुनपर्णाद्याहारेणापि वा घनदुग्धधारण करोति। तस्या माषपणाहारेण इक्षुदण्डाहारण वा अर्जुनपत्राद्याहारेण वा धृतघनदुग्धाया घनं पयः केवलं द्रव्यान्तरयोगं विना शृतमभवशिष्टपकमशृतं धारोष्णमपक्कं वानुरूपतया शर्करानूतनमधुसपिभिः युक्तं पाययेत् शुद्धतनुमुत्तमं वृष्यम् ॥२॥ इति वृष्यकेवलक्षीरप्रयोगः।
पक्रपाणिः-माषपर्णभृतीयसन्बम्धोऽपि पूर्ववत्। गृष्टिमकवारप्रमृताम् ; चतुःस्तनीमित्यनेन सम्पूर्णचतुःस्तनीं दर्शयति । रोहिणीमिति लोहितवर्णाम् । ऊर्द्ध शृङ्गत्वं विशुद्धबहुक्षीराया एव भवतीति बचनाजज्ञेयम् । इक्ष्वादेति इक्षुदण्डभक्षा । अर्जुनादा अर्जुनवृक्षपसमक्षा । इक्ष्वादा का अर्जनादा
For Private and Personal Use Only