________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५९४
चरक-संहिता। सप्तलाशङ्गिनीकल्पः मसूरविदलायाश्च प्रत्यकरण्यास्तथव च । द्विभागाद्धांशकल्केन ® तत् साध्यञ्च पुनघृतम् ॥ सप्तलाशङ्खनोधात्रो-कषाये चापरं घृतम् ।
त्रिवृत्कल्पेन सर्पिश्च त्रयो लेहाश्च पूर्ववत् ॥७॥ एकभागः, इत्यचं द्विभागाद्धांशिक क्षीरिणीनीलिनिकयोः कल्के घृतात् पादिके चतुगुणे क्षीरे साध्यमिति द्वितीयः। अपरमाह-तथैव च करञ्जयोरिति । शशिनीसप्तलाकल्कपकक्षीरोत्थ घृतं, सप्तलाशजन्योमिलितयोद्वौं भागौ कल्को, गोकरञ्जनाटाकरञ्जयोमिलितयोरेकभागः, इत्येवं शङ्खनीसप्तलाद्विभागाद्धांशिके करञ्जद्वयकल्के घृतात् पादिके चतुर्गुणे क्षीरे साध्यमिति तृतीयः । अपरश्चाहमसूरेत्यादि। शाकिनीसप्तलाकल्कपकक्षीरोत्थं घृतं शङ्खिनीसप्तलयोद्वौ भागो कल्को मसूरविदलाया एकभागः कल्क इत्येवं शङ्खिनीसप्तलयोविभागाद्धांशिके मसूरविदलाकल्के घृतात् पादिके चतुगुण क्षीरे साध्यमिति चतुर्थः। अपरञ्चाह-प्रत्यक्श्रेण्यास्तथैव चेति। शङ्खिनीसप्तलाकल्कपकक्षीरोत्थं घृतं सप्तलाशङ्खिन्योः कल्को मिलितयोद्वि भागः प्रत्यक्श्रेण्याः कल्क एकभाग इत्येवं सप्तलाशकिन्योद्वि भागाद्धांशिके प्रत्यक्श्रेण्याः कल्के घृतपादिके चतुर्गुणक्षीरे साध्यमिति पञ्चमः । प्रत्यक्श्रणी द्रवन्ती। पूर्वेण सह षट्। अपरश्चाहसप्तलेत्यादि। सप्तलादीनां त्रयाणां कषाये चतुगुणे घृतं पचेदित्यपरं सप्तमं घृतम्। अष्टमश्चाह-त्रित्कल्पनेत्यादि। त्रिताकल्पेनापरं सपिः पचेत् । तद् यथा। शजिनौं सप्तला पादिकी कल्कीकृत्याम्लफलादिरसे समे त्रिगुणे च जले घृतं पक्त्वा पिवेदित्यष्टमं घृतम्। इत्यष्टौ योगाः सर्पिषि । त्रयो लेहाश्च पूर्ववदिति त्रिवकल्पवत् । तद्यथा-शङ्खिनीसप्तलाकषायेण तयोः कल्कं समशकर लेहं पचेत्, तस्य पाणितलं लिह्यादित्येकः । शर्करां जले द्रवीकृत्य पचेत्, तन्तुलीभूते शङ्खिनीसप्तलाचूर्ण तत्सम खपत्रमरिचर्ण प्रक्षिपेत्, शीते मधु दत्त्वा तं लेहमीश्वराणां विरेचनं पिबेदिति द्वितीयः। तृतीयश्च यथाइक्षुद्राक्षापीलुपरूषकाणां रसं प्रत्येकं कुड़वं सितोपलायाः पलं पत्त्वा अजङ्गी विषाणी। क्षीरिणी दुग्धिका। मसूरविदला श्यामलता। प्रत्यकपर्णी मूषिकपर्णी । विहङ्गाडांशकरकेनेति दन्त्यादिद्विवादभागिकेन कल्केन। शशिनीत्यादिना सप्तमं घृतम्।
• विनादीशकल्केनेति चरतः पाठः ।
For Private and Personal Use Only