________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[इक्ष्वाकुकल्प
३५४६
चरक संहिता। सधृतो वीजभागश्च पिष्टानशिकांस्तथा। महाजालिनिजीमूत-कृतवेधनवत्सकान् ॥ तं लेहं साधयेद दा घट्टयेन्मृदुवहिना। यावत् स्यात् तन्तुमत् तोये पतितन्तु न शीय्यते ॥ तं लिह्यात् मात्रया लेहं प्रमथ्याश्च पिबेदनु । कल्प एषोऽग्निमन्थादौ चतुष्के पृथगुच्यते ॥ १४ ॥ शक्तुभिर्वा पिबेन्मन्थं तुम्बीस्वरसभावितैः ।
कफजे तु वरे श्वासे कण्ठरोगेष्वरोचके॥ घृततुल्या महाजालिन्यादींश्चतुरः वीजभागादर्द्धांशिकान् प्रत्येकमर्द्धकुड़वान् पिष्टान् यश्च सघृतो वीजभाग इक्ष्वाकुकुड़वस्तं चैकीकृत्य विल्यमूलकषायेण पचे। लेहं साधयेन्मृदुहिना दा च घट्टयेत् यावत् तन्तुमद् स्याद तोये क्षिप्तन्तु न शीर्यते च। तत्रासनपाके त्रिकट कचूर्ण प्रक्षिपेदित्येवं सिद्धं तं लेहं मात्रया लिह्यात्। तदनु प्रमथ्यां दीपनपाचनयोगं पिबेत् । इत्येको लेहः, एष एव कल्पोऽग्निमन्थादौ चतुष्केऽग्निमन्थश्योनाकगाम्भारीपाटलानां मूलकषाये पृथगुच्यते । इति पञ्च लेहाः। इति चतुश्चत्वारिंशत् ॥१४॥ मदनकल्पोक्ता अष्टौ । कषायैरिस्यादिना मदनफलसदृशविधा अष्टौ मातालक्षिताः प्रयोगा च्यन्ते । विश्वेत्यादिना एको लेहः। तथा कल्प इत्यादिना चत्वारो लेहा अन्ते द्रष्टव्याः, एवं पत्र लेहाः । अञ्जलिः पलचतुष्टयः। अत्र च "ततश्च कुड़वं यावत् तोयमष्टगुणं भवेत्" इति वचनात् विश्वमूलकषायस्याष्टावक्षलयो देयाः, ततश्चतुर्भागावशेषेण कुड़वद्वयम्, फापिताश्त इक्षुरसः। 'चतुर्थः फाणितस्य च एतस्य स्थाने, 'त्रयस्त्रिकटु कस्य च' इति पदन्ति। सघृतो घृतस्येको भागः। अद्रीशिकानिति एकभागार्द्धमानान् प्रत्येकं महाजालिन्यादीन् । महाजालिनी पीतकोषावकी। कृतवेधनो घोषकभेदः, ज्योस्निकेति ख्यातः। यावत् स्यात् तन्तुमहित्यादिना लेहपाकलक्षणमाह। एतच्च लक्षणं लेहान्तरेष्वपि योजनीयं ज्ञेयम् । नीर ते = विस्तीर्यते । प्रमथ्याञ्च पिबेदन्विति अतीसारचिकित्सिते "पिप्पली नागरं धान्यम्" इत्यादि नोकामथ्यानां मध्ये अन्यतमप्रमथ्याकृतं कषायं पिबेदित्यर्थः। 'प्रमथ्याच' इत्यत देखिन 'मन्थश्चापि' पठन्ति। अग्निमन्थादाविति प्रत्येकमग्निमन्थश्योनाकपाटलागाम्भारीमूल चतुर्थ फामूलकथनप्रस्तावे रसायने कथितम् ॥ १३ ॥ १४ ॥
For Private and Personal Use Only