________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः। अथातो जीमूतकल्पं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥ कल्पं जीमूतकस्येमं फलपुष्पाश्रयं शृणु। खरागरी च वेणी च तथा स्याद् देवताड़कः ॥ जीमूतकं त्रिदोषघ्नं यथाखौषधकल्पितम् । प्रयोक्तव्यं ज्वरश्वास-हिकाकोठामयेषु च ७ ॥२॥ यथोक्तगुणयुक्तानां जोमूतानां यथाविधि । पयः पुष्पेषु निर्वृत्तं फले पेयं शृतं पयः॥ गङ्गाधरः-अथाध्यायोद्देशक्रमाजोमूतकल्पमाह-अयात इत्यादि। षड्विरेचनशताश्रितीये यदुक्तम्-“एकोनचत्वारिंशजोमूतकेषु योगाः” इति तदेकोनचवारिंशदयोगमुदाहत्तु मिमं जीमूतकल्पं व्याख्यास्यामः। न तु दीर्घञ्जीवितीये फलिनीषु वमने जीमूतस्य फलमुक्तं तत्फलमात्रस्य योगानुदाहत्तु मिति ॥९॥ __ गङ्गाधरः-तदेव व्यनक्ति। कल्पमित्यादि। इमं जीमूतस्य कल्पं फलपुष्पाश्रयं शृणु न केवलं फलाश्रयमिति। तज्जोमूतं खरागरी वेणी देवताड़क इति पर्यायैरुक्तम्। यथाखौषधकल्पितं त्रिदोषन मिति ज्वरादिषु प्रयोक्तव्यमिति ॥R
गङ्गाधरः-यथेत्यादि। तान् योगानाह। यथोक्तगुणयुक्तानां जोमूतानां घोषकाणां पुष्पेषु यथाविधि पयःपाकविधिना निर्वृत्तं सिद्धं पयः पेयमित्येकः ।
चक्रपाणिः-मदनकल्पानन्तरमनपायित्वादेवेवाकादिद्रव्यप्राधान्यात् जीमूतकस्य, जीमूत. कल्पोऽभिधीयते। एवं यथायथमनपायित्वप्रकर्षः, तथा पूर्वनिवेशनं ज्ञेयम् । ततोऽवसरन्याये. नाध्यायसम्बन्धोऽत्रवोक्तो ज्ञयः। मदनफलस्य स्नेहस्वेदादिपूर्वकत्ववदिहापि क्रमोऽतिदेशादुले तव्यः। फलपुष्पाणामिति वचनेन जीमूतस्य पवनालादिषु वमनप्रयोर निषेधति । गरागरी चेत्यादि पर्यायकथनम् । जीमूतः पोतघोषकः। विदोषघ्नमिति यथास्वं वातहरादिद्रव्ययुक्तम्, तथा वातादिहरद्रव्यकल्पितञ्च सत् त्रिदोषन्न भवति । हिकाद्य निति आद्यशब्देन काशादीना. मामयानां हिकारोगगतदोषजन्यानां ग्रहणम् ॥ १॥२॥
चक्रपाणि:-यथोक्तविधानग्रहणगृहीतानां पयः पुष्प इत्येको योगः, निवृत्त इत्यादि द्वितीयो * हिलादेवष्विति चक्रतः पाठः।
For Private and Personal Use Only