________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाजीकरणपाद १
२३५२ चरक-संहिता।
अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना। मन्सव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते ॥६॥ बहुमूर्तिर्बहुमुखो बहुव्यूहो बहुक्रियः। बहुचक्षुर्बहुज्ञानो बह्वात्मा च बहुप्रजः॥ मङ्गल्योऽयं प्रशस्तोऽयं धन्योऽयं वीर्यवानयम् । बहुशाखोऽयमिति च स्तूयते ना बहुप्रजः॥ प्रीतिर्बलं सुखं वृत्तिर्विस्तारो विभवः ॐ कुलम् । यशो लोकाः सुखोदास्तुष्टिश्चापत्यसंश्रिताः ॥
पुमान् चित्रदीपश्चित्रीकृतदीपरूपो नालोककरः, शुष्कं सर इव लोकानाम् अप्तिकरः, अयातुः कनकादिधातुभिन्नः सन् धातुसन्निभोऽकनकादिधातुवत् अपुरुष एव पुरुषाकृतिः तृणपूलीति तृणगुच्छकृतमूत्तिवज्ज्ञातव्यः। अप्रतिष्ठश्चेस्मादि। प्रतिष्ठारहितः पुमान् निष्क्रियः। क्रियाहीनः नमः दिगम्बरः पुमान् निष्क्रियः। शून्यः स्त्रीरहितः पुमान् निष्क्रियः। एकेन्द्रियः प्राधान्यादेकचा पुमान् निष्क्रियः। यस्य पुसोऽपत्यं न विदाते सोऽपि निष्क्रियो मन्तव्यः॥९॥
गङ्गाधरः-बहुपत्यपुरुषं स्तौति—बहुमूर्तिरित्यादि। बहुमजः पुरुषः बहुमूर्तिरित्यादिरूपो भवति। नन तेन किमित्यत आह–मङ्गल्योऽयमित्यादि । बहुप्रजो बहपत्यो ना पुरूषो मङ्गल्योऽयमित्यादिरूपेण लोके स्तूयते। अपत्यप्रशंसामाह-प्रीतिरित्यादि। लोका इन्द्रलोकब्रह्मलोकादिखाकाः परत्र, इह च काश्यादिलोकाः, राजधान्यादिलोकाश्च ये सुखोदाः सुखमुत्तरफलं यत्र ते उत्तरकाले सुखफलकाः लोका इत्यर्थः। एते सर्वे प्रीत्यादयोऽपत्यसंश्रिताः।
या जातुषकङ्गणादिः ; पूलि नपुंसकधर्मित्वात् ; तृणपुरुषाकृतिरिति परिभाषया पुरुषार्थक्रियाविरहित्वं दर्शयति ॥९॥
* विपुलं कुलम् इति च पाठः ।
For Private and Personal Use Only