________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४४०
चरक-संहिता। वातरक्कचिकित्सितम् घृतमांसरसे भृष्टं शाकसात्म्याय दापयेत् । व्यञ्जनार्थे तथा गव्यं माहिषाजं पयो हितम् ॥ इति संक्षेपतः प्रोक्तं वातरक्तचिकित्सितम् । एतदेव पुनः सव्वं व्यासतः संप्रवक्ष्यते ॥ १७॥ श्रावणोक्षीरकाकोली-जोवकर्षभकैः समः।। सिद्धं समधुकैः सर्पिः सक्षोरं वातरक्तनुत् ॥ १८॥ बलामतिबला मेदामात्मगुप्तां शतावरीम् । काकोलों क्षीरकाकोली रानां मृद्वीश्च पेषयेत् ॥ घृतं चतुर्गणक्षीरं तैः सिद्धं वातरक्तनुत्। ... हृत्पाण्डरोगवीसर्प-कामलाज्वरनाशनम् ॥ १६ ॥ त्रायन्तिका तामलकी द्विकाकोली शतावरी। कशेरुका कषायेण कल्कैरेभिः पचेद घृतम् ॥ दत्त्वा परूषकद्राक्षा-काश्मय्येक्षुरसान् समान् ।
पृथक् विदार्याः स्वरसं तथा क्षीरं चतुर्गणम् ॥ सुनिषण्णकादिशाकम्। लवणं सौवर्चलम्। घृतेत्यादि। शाकसात्म्याय सुनिषण्णकादीनां शाकं घृतमांसरसे भृष्टं व्यञ्जनाथं दापयेत् । तथा गव्यं माहिषमाजश्च पयो हितमिति। इतीत्यादि स्पष्टम् ॥१७॥
गङ्गाधरः-व्यासत आह-श्रावणीत्यादि । श्रावणी मुण्डेरी। श्रावण्यादिमधुकान्तैः कल्कैश्चतुर्गुणक्षीरे सिद्धं सर्पिः सर्ववातरक्तनुत् ॥१८॥
गङ्गाधरः-बलामित्यादि। बलादि-मृद्वीकान्तः कल्कः॥१९॥
गङ्गाधरः-त्रायन्तिकेत्यादि । त्रायन्ती त्रायमाणा तामलको भूम्यामलकी। बायन्तिकादीनां षण्णां घृतसमेन कषायेण एभिः षभिधृ तपादिकः कल्कैश्च
पाणिः-सौवर्चलमिति सूर्यावर्तशाकम् । व्यञ्जनार्थमिति भोजनसाधनतया । आज पयइत्यादि उपक्रमः। एतदेवेति संक्षिप्तप्रयोगकथनं प्रपञ्चेन प्रपञ्चति ॥ १७॥
चक्रपाणिः-श्रावणी मुण्डी। चतुर्गुणक्षीरमित्यनेन द्रवान्तरभावात् चतुर्गुणक्षीरमेव घृताद भवति। सायन्तीत्यादौ कल्कैरेभिरित्यनेन पृथक् विदार्य्यन्तानां कलकत्वम्, कशेरुकाकषायः । परुषस्वरसादीनां प्रत्येकं घृतसमानत्वे विदारीरस्यापि तथा वचनात् समत्वम् । मन अनुर
For Private and Personal Use Only