________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४३६
चरक संहिता ।
।
एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम् । त्रिदोषजमसाध्यं स्याद यस्य च स्युरुपद्रवाः ॥ ६॥ अस्वप्नारोचकश्वास-मांसकोथशिरोग्रहाः मूर्च्छायमदरुकतृष्णा-ज्वर मोहप्रवेपकाः ॥ हिक्कापाङ्गल्यवीसर्प- पाकतोदभ्रमलमाः । अलीकता स्फोटा दाहमर्म्मग्रहार्बुदाः ॥ १० ॥ एतैरुपद्र तं वज्ज्यं मोहेनैकेन वापि यत् । संप्रस्रावि विवर्णञ्च स्तब्धमर्व्वदच्च यत् ॥ वर्जयेच्चैव सङ्कोच - करमिन्द्रियतापनम् । अकृत्स्नोपद्रवं याप्यं साध्यं स्यान्निरुपद्रवम् ॥ ११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ वानरत चिकित्सितम्
गङ्गाधरः - एकेत्यादि । एकदोषानुगं नवं वातरक्तं साध्यम्, द्विदोषजं याप्यम्, त्रिदोषजमसाध्यं स्यात्, यस्य च वाताद्यधिकस्यापि उपद्रवाः स्युस्तदप्यसाध्य स्यात् ॥ ९ ॥
गङ्गाधरः – उपद्रवानाह – अस्वप्नेत्यादि । अस्वमाद्यन्वु दान्ता उपद्रवा भवन्ति ॥ १० ॥
गङ्गाधरः - एतैरित्यादि । एतैः समस्तैरुपद्रवैरुपद्र तं वातरक्तं व न त्वेकैकेन बहुभिर्वोपद्रतम् । तत्रैकेन मोहेनोपद्रतं यत् तदपि वज्ज्यम् । मांसखाविप्रभृतिकं यच्च तदपि विवर्जयेत् । सङ्कोचकरमिन्द्रियतापनं यच तदपि वर्जयेत् । नन्वनेकोपद्रवयुक्तं किं साध्यमित्यत आह-अकृत्स्नेत्यादि । एकाद्य
For Private and Personal Use Only
पञ्चचत्वारिंशद्भेदा उक्ताः । करणादीनि तु प्रकरणान्तरेण षट्त्रिंशद्विभ्रमुक्तम् । उक्कं हि"वावोत्तरं प्रवृद्धासृक् पञ्चविंशविधं मतम् । पित्तात् पटविंशद्विधं योगात् कफाद् दशेति । एते भेदाः अनतिप्रयोजनत्वान्न विवृता ॥ ७ ॥ ८ ॥
चक्रपाणिः - साध्यादिविभागमाह - एक दोषानुगमित्यादि । यस्य च स्युरुपद्रवा इति साध्यत्वेनोक्तस्यापि वक्ष्यमाणोपद्रवयोगादसाध्यता । विदोषस्य असाध्यत्वेऽपि यद् वक्ष्यखि “खजेनमथिता पेया वातरक्ते विदोषजे" इति, तत् असंपूर्णलक्षणत्रिदोषजाभिप्रायेण । मूर्च्छा इव मूर्च्छा पाशुल्यं पशुता । मोहेन केनेति इतरोपद्रवाणां मेलकैरसाध्यत्वम्, मोहस्तु एक एव असाध्यताकर इत्यर्थः । ये तु मेहेन के नेति पठन्ति ते मेहेन वातशोणितस्य विरुद्धोपक्रमतया मेहयोगेनासाध्यवास्