________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६०
चरक-संहिता। द्विवणीयचिकित्सितम कदम्बा नजम्बूनां पाटल्याः पिप्पलस्य च । व्रणप्रच्छादने विद्वान् पत्राण्यस्य चादिशेत् ॥ ३ ॥ वामोऽथवाप्यवामश्च ® पट्टो व्रणहितः परः। बन्धश्च द्विविधः शस्तो व्रणानां सव्यदक्षिणः ॥४०॥ लवणाम्लकटूष्णानि विदाहीनि गुरुणि च। वर्जयेदन्नपानानि व्रणो मैथुनमेव च ॥४१॥ नातिशीतगुरुस्निग्धविदाहि यथावणम् । अन्नपानं व्रणहितं हितञ्चास्वपनं दिवा ॥ ४२ ॥ स्तन्यानि जीवनीयानि वृहणीयानि यानि च।
उत्सादनार्थं निम्नानां व्रणानां तानि कल्पयेत् ॥ ४३ ॥ गङ्गाधरः-अथ व्रणच्छादने शोधनरोपणे पत्राण्याह। कदम्बेत्यादि । कदम्बादीनां पत्रव्रणप्रच्छादने आदिशेत् ॥३९॥ , गङ्गाधरः-बन्धनद्वयमाह। वाम इत्यादि। वामः पट्टोऽथवाप्यवामो दक्षिणः पट्ट इति द्विविधो बन्धो व्रणहितः सव्यदक्षिणः शस्तः॥४०॥ : गङ्गाधरः-अथायमिति खाद्य वय॑माह-लवणेत्यादि। मैथुनवर्जनं प्रसङ्गादुक्तम्, आद्यशब्देन पथ्यापथ्ययोर्विवक्षितखात् ॥४१॥ - गङ्गाधरः-नातीत्यादि। नातिशीतादिकं खाद्यम्। दिवा चास्वपनं हितमिति मैथुनवत् ॥४२॥ - गङ्गाधरः-अथोत्सादनमाह-स्तन्येत्यादि। स्तन्यजननानि दश। जीवनायानि दश। दृहणीयानि दश। निम्नानां व्रणानामुत्सादनार्य कल्पयेत् ॥४३॥. रोपणीयमिति वचनात् रोपणमेव घृतं कर्त्तव्यं नतु शोधनार्थं घृतं कर्त्तव्यमित्यर्थः । सव्यदक्षिण इति वामदक्षिणः। अत्रैव शल्योक्तचतुर्दशबन्धावरोधः कार्यः ॥ ३८-४२॥ - चक्रपाणि:-स्तन्यानि षड़ विरेचनाशताश्रितीयोक्तानि। अश्मकासीसं धातुकासीसम् । अधोभागानि विवृतादीनि विरेचनद्रव्याणि ।
सोऽथ बादरश्चैवेति पाठान्तरम्।
For Private and Personal Use Only