________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२८०
चरक-संहिता। द्विव्रणीयचिकित्सितम् शोधयेद् बहुदोषान् वै ह्यणुदोषान् विलङ्घयेत् ।
पूर्व कषायसपिभिर्जयेद् वा मारुतोत्तरम् ॥ २०॥ रक्तावसेचनं जलौकादिभिः कुर्यात् न छेदनं कुर्यादिति षड़ विधेषु वणशोथघ्नेषु उपक्रमेषु प्रथम उपक्रमो रक्तावसेचनम् । बहुदोषान् शोथवत ऊर्भाधः शोधयेत्। अणुदोषान् अल्पदोषवतः शोथिनो विलवयेदिति। पूर्वरूपव्रणशोथविज्ञानमुक्तं सुश्रुते। तद्यथा-“शोफसमुत्थाना ग्रन्थिविद्रध्यलजीप्रभृतयः प्रायेण व्याधयोऽभिधास्यन्ते अनेकाकृतयस्तैर्विलक्षणः पृथुग्रंथितः समो विषमो वा खङ्मांसस्थायी दोषसङ्घातः शरीरैकदेशोत्थितः शोफ इत्युच्यते, स षड़विधो वातपित्तकफशोणितसन्निपातागन्तुनिमित्तः। तस्य दोषरूपव्यञ्जनैर्लक्षणानि व्याख्यास्यामः । तत्र वातशोफोऽरुणः कृष्णो वा परुषो मृदुरनवस्थितास्तोदादयश्चात्र वेदनाविशेषा भवन्ति । पित्तशोफः पीतो मृदुः सरक्तो वा शीघ्रानुसारी चोषादयश्चात्र वेदनाविशेषा भवन्ति। श्लेष्मशोफः पाण्डुः शुक्लो वा कठिनः शीतः स्निग्धो मन्दानुसारी कण्डादयश्चात्र वेदनाविशेषा भवन्ति। सर्वव्रणवेदनः । सन्निपातजः। पित्तवच्छोणितजोऽतिकृष्णश्च। पित्तरक्तलक्षण आगुन्तुलौहितावभासश्च। स यदा वाह्याभ्यन्तरैः क्रियाविशेषैनै सम्भावितः प्रशमयितु क्रियाविपर्ययाद वहुसाद वा दोषाणां तदा पाकाभिमुखो भवति । तस्यामस्य पच्यमानस्य पकस्य च लक्षणमुच्यमानमवधारय। तत्र मन्दोष्मता त्वक्सवर्णता शीतशोफता स्थैर्य मन्दवेदनताऽल्पशोफता चामलक्षणमुद्दिष्टम् । सूचीभिरिव निस्तुद्यते दश्यत इव पिपीलिकाभिस्ताभिश्च संसृप्यत इव छिद्यते इव शस्त्रेण भिद्यत इव शक्तिभिस्ताड्यत इव दण्डेन पीड्यत इव पाणिना घट्यत इव चाल्या दह्यते पच्यते इव चाग्निक्षाराभ्यामोषचोपपरिदाहाश्च भवन्ति। वृश्चिकविद्ध इव च स्थानासनशयनेषु न शान्तिमुपैति । आध्मातवस्तिरिवाततश्च शोफो भवति। खगवैवयं शोफाभिवृद्धि रदाहपिपासाभक्तारुचिश्च पच्यमानलिङ्गम्। वेदनोपशान्तिः पाण्डुताऽल्पशोफता बलीप्रादुर्भावस्वकपरिपोटनं निम्नदर्शनमङ्गुल्यावपीड़िते प्रत्युन्नमनं वस्ताविवोदकसञ्चरणं पूयस्य अपीड़यत्येकमन्तमन्ते वावपीड़िते मुहुम हुस्तोदः कण्डूरनुन्नतता चव्याघेरुपद्रवशान्तिभक्ताभिकाङ्क्षा च पकलिङ्गम्। कफजेषु तु रोगेषु मम्भीरगतिवादभिघातजेषु वा केषुचिदसमस्तं पकलक्षणं दृष्ट्वा पकमपकमिति मन्यमानो भिषक मोहमुपैति । यत्र हि लक्सवर्णता शीतशोफता स्थौल्यमल्परुजताऽश्मवद्घनता
For Private and Personal Use Only