________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६२
चरक-संहिता। [मदात्ययचिकित्सितम् कर्मणानेन सिद्धेन विकार उपशाम्यति । धीमतो वैद्यवश्यस्य शोघ्र पित्तमदात्ययः॥५६॥ उल्लेखनोपवासाभ्यां जयेत् कफमदात्ययम् । तृष्यते सलिञ्चास्म दद्याद्धोवेरसाधितम् ॥ घलया पृश्निपा वा कण्टकार्याथवा शृतम् । सनागराभिः सर्वाभिराभिर्वा शृतशीतलम् ।। दुःस्पर्शन समुस्तैन शृतं पर्यटकेन वा। जलं मुस्तैः शृतं वापि दद्याद दोषविपाचनम् ॥ एतदेव च पानीयं सर्वत्रापि मदात्यये। निरत्ययं पीयमानं पिपासाज्वरनाशनम् ॥ ५७॥ निरामं काक्षितं काले पाययेद बहुमानिकम् । शार्करं मधु वा * जीर्णमरिष्टं सीधमेव वा ॥ रूक्षं तर्पणसंयुक्तं यवान्नं वा प्रदापयेत् ।।
व्योषयूषमथाम्लं वा सिद्धं वा साम्लतसम्॥ मातुलुङ्गरसो मधु च मिलिताः साम्लकाञ्जिका एते सेके प्रदेहे दाहनाः । कर्मणेत्यादि। पित्तमदात्ययचिकित्सोपसंहार एपः॥५६॥
गङ्गाधरः-कफमदात्ययचिकित्सितमाह-उल्लेखनेत्यादि। कफमदात्ययं भिषगुल्लेखनोपवासाभ्यां जयेत्। तृष्यते चारमै कफमदात्ययवते होवेरबलापृश्निपीकण्टकारीणामेकतमेन शृतं समस्तेन वा शृतं शीतलं जलं दद्यात् । दुःस्पर्शेनेत्यादि। दुरालभामुस्तकभृतं पर्पटभृतं वा मुस्तकशृतं वा शीतलं जलं दोषपाचनं दद्यात् । एतदेवेत्यादि । एतदेव सर्वं हीवेरसाधितादिकम् ॥५७॥ ___ गङ्गाधरः-एतेन दोषपाचनेन जलेन काले च निरामं मदात्ययवन्तं काशितं पातु बहुमाक्षिक जलं पाययेत्। शार्करं शकरामिश्रितं वा जलं जीर्ण वा मधु पाययेत् । अरिष्टं वा सीधु वा पाययेत्। भोक्तु कासितं रूक्षं तर्पणसंयुक्तं तर्पणञ्च यवान्नं वा प्रदापयेत् । व्योषयूषं व्योषसाधितं उल्लेखनेत्यादिना-कफमदात्ययचिकिस्सितम्। तृष्यते 'सलिलमित्यादौ पड़ङ्गविधिना * माध्यमिति चक्रेण पठ्यते।
For Private and Personal Use Only