________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६०
चरक-संहिता। [मदात्ययचिकित्सितम् परूषकाणां पीलूनां रसं शीतमथाम्बु वा। पर्णिनीनां चतस्तृणां पिबेद वा शीतलं जलम् । मुद्गदाडिमलाजानां तृष्णान वा पिबेद रसम् ॥ कोलदाडिमवृक्षाम्ल-चुक्रीकाचुक्रिकारसः। पञ्चाम्लको मुखालेपः सदास्तृष्णां नियच्छति ॥ ५४ ॥ शीतानि चान्नपानानि शीतशय्यासनानि च । शीतवातजलस्पर्शाः शीतान्युपत्रनानि च। क्षौमपद्मोत्पलानाञ्च मणीनां मौक्तिकस्य च । चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतलाः॥ हैमराजतकांस्यानां पात्राणां शोतवारिभिः। पूर्णानां हिमपूर्णानां दृतीनां पवनाहतः ॥
तेन येन मदेन तृष्णोपशाम्येत येन च मदं नाप्नुयात्। परूषेत्यादि। अथवा परूषकाणां शीतमम्बु अर्द्धशृतं काथं तथा पीलूनाम्। तथा मिलितानां चतसृणां . पर्णिनीनां शीतलमर्द्धशृतं जलं वा, मुद्गादीनां वा रसमर्द्धभृतं तृष्णान्न पिवेत् । कोलेत्यादि। कोलादिरसः पश्चाम्लकः पञ्चभिरम्लनिष्पादितो मुखालेपः। वृक्षाम्लं तिन्तिडीकफलम् । चुक्रीका नाम शाकविशेषः। चुक्रिका अम्लोटकम् ॥५४॥
गङ्गाधरः-शीतानीत्यादि। पित्तमदात्यये दाहादिषु प्रयोज्या भवन्त्येते । क्षौमादीनां चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतलाश्च स्पर्शाः। वारिभिः पूर्णानां हमादिपात्राणां स्पशाः। हिमपूर्णानां दृतीनां स्पर्शः पवनाहतश्च भोजनसमये तृषां लक्षीकृत्य पाययेत्। अनुपानस्य मातामाह-अनुतरेत्यादि । मुहुर्मुहुर्दीयमानस्य मनो न दूष्यत इति न विकृतिं याति। एतेन तृषायां मनोहन्तु यन्मद्य न भवति तदनुतर्षसंझं भवतीत्यथः । तृष्णानमिति कषायरूपं रसम्। चुक्रिका चाङ्गेरी ॥५२-५४ ॥
For Private and Personal Use Only