________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
इन्द्रियस्थानम् ।
प्रथमोऽध्यायः। अथातो वर्णस्वरीयमिन्द्रियं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥ गङ्गाधरः-अथ जातिसूत्रीये बालानामायुषः परीक्षार्थ लक्षणानि संक्षेपतो व्याख्यातानि, पुनस्तेषामरिष्टलक्षणानि चिकित्सायामुपयोगाय भवन्तीत्यतः शारीरस्थानानन्तरमिन्द्रियस्थानमारभते। उक्तं हि सुश्रुत-"फलाग्निजलदृष्टीनां पुष्पधूमाम्बुदा यथा। ख्यापयन्ति भविष्यत्त्वं तथारिष्टानि पञ्चताम् । तानि सौक्ष्म्यात् प्रमादाद वा तथैवाशुव्यतिक्रमात्। गृह्यन्ते नोदतान्यज्ञ मुमूर्षाने खसम्भवात् । ध्रुवन्तरिष्टे मरणं ब्राह्मणैस्तत् किलामलैः। रसायन-तपो-जप्य
चक्रपाणिः-शारीरे चिकित्साधिकरणं शरीरं प्रतिपाद्य चिकित्सा व्यक्तव्या, सा च साध्यरोगे ध्यक्तव्या नासा व्यरोगे। यदुक्तं "स्वार्थविद्यायशोहानिमुपक्रोशमसंग्रहम् । प्राप्नुयानियतं वैद्यो योऽसाध्यं समुपावरेत्" इति। न च रिष्टप्रतिपत्तिमन्तरा साध्यत्वप्रतिपत्तिरिति रिष्टपतिपादकमिन्द्रियस्थानमेव चिकित्सास्थानात् प्रागुच्यते। तस्यान्तर्गस्य लिङ्गं रिष्टाख्यमिन्द्रियम्, यदुक्तं व्याकरणे "इन्द्रियं रिष्टम्" इत्यादि। तस्येन्द्रियस्य स्थानमिन्द्रियस्थानम् । अत्रापि चेन्द्रियस्थाने वक्तव्ये व्यक्ततमरिष्टाभिधायकतया वर्णस्वरीयमिन्द्रियमुच्यते । अत्र हि यानि रिष्टानि वक्तव्यानि, तानीतररिष्ठेभ्यश्चक्षुरादिग्राह्यतया व्यक्ततमानि । वर्णस्वरावधिकृत्य कृतो वर्णस्वरीयः ।
For Private and Personal Use Only