________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४२
चरक-संहिता। जातिसूत्रीयं शारीरम् एवमेनं कुमारम् आ यौवनप्राप्नेर्धर्थिकौशलागमनादनुपालयेत्। इति पुत्राशिषां समृद्धिकरं कर्म व्याख्यातम् । तदाचरन् यथोक्तैर्विधिभिः पूजां यथेष्टं लभतेऽनसूयकः इति ॥ ५८॥
तत्र श्लोको। पुत्राशिषां कार्म समृद्धिकारक यदर्थमेतन्महदर्थसंहितम् । तदाचरन् ज्ञो विधिभिर्यथातथं
पूजां यथेष्टं लभतेऽनसूयकः॥ गङ्गाधरः-नन्वेवमातिष्ठेत् कियन्तं कालमित्यत आह-एवमेनमित्यादि। एवमुक्तप्रकारेण एनं कुमारम् आ यौवनप्राप्तेः षोड़शाब्दायु प्रमाणपूर्तिपय्येन्तमनुपालयेत्। कस्मादित्यत आह-धर्मत्यादि । धर्थियोः विषययोः साधनाय यत् कौशलं तस्यानुपगमः शैशवे। तस्माद् आ यौवनप्राप्तेरेवमेनं कुमारमनुपालयेदिति भावः। अध्यायमुपसंहरति-इति पुत्राशिषामित्यादि। पुत्रस्य आशिषाम् आशासनानां शुभवाञ्छानां समृद्धिः सत्फलं तत्करम् । सदाचरन् तत् पुत्राशिषां समृद्धिकरं कर्माचरन् पुरुषः यथोक्तैरुक्तविधिमनतिफम्याचरन् अनसूयको लोके परानसूयकः पूजां मानमर्यादादिकां यथेष्टां स्वाभिलषितां लभते। इति सत्पुत्रलाभफलम् ॥५८॥ .. गङ्गाधरः-एतमर्थ श्लोकेनाह-तत्र श्लोकावित्यादि । अर्थसंहितं प्रयोजनसहितं महदेतत् पुत्राशिषां समृद्धिकारकं कर्म यदर्थ भवति, विधिभिः उक्त विधानस्तत् कर्माचरन्नम्यारहितो शः पण्डितो ययायथं यथायोग्यं क्रमेणोपयुजान इत्यर्थः। तथा वस्स्वन्तरसात्म्यसेवायामपि बालश्चैवमेव भवतीति व्याख्यानम् । स्वस्थवृत्ताचरणफलमाह-तथेत्यादि ॥ ५५-५७ ॥
चक्रपाणिः-पुत्राशिषां समृद्धिकरमिति पुत्रप्रार्थनानुरूपफलकरमित्यर्थः। पुनाशिषामित्यध्यायार्थसंग्रहश्लोकः । 'ज्ञः' इति पुरुषविशेषणं प्राधान्यात कृतम्। तेन पूजामेव लभते,
For Private and Personal Use Only