________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः ।
शारीरस्थानम्।
२०४६ धमन्यः। तत्र विद्धस्य शोषः प्राणवहविद्धवच्च मरणं तल्लिङ्गानि चेत्यर्थः । रक्तवहे द्व, तयोमूलं यकृतप्लीहानौ रक्तवाहिन्यश्च धमन्यः ; तत्र विद्धस्य श्यावाङ्गता ज्वरो दाहः पाण्डता शोणितातिगमनं रक्तनेत्रता चेति। मांसवहे द्वे, तयोमूलं स्नायुखचं रक्तवहाश्च धमन्यः ; तत्र विद्धस्य श्वयथमांसशोषः सिराग्रन्थयो मरणं वा। मेदोवहे द्व, तयोमूलं कटी वुक्कौ च ; तत्र विद्धस्य स्वेदागमनं स्निग्धाङ्गता तालुशोषः स्थूलशोफता पिपासा च। मूत्रवहे दे, तयोर्मूलं वस्तिमैदञ्च ; तत्र विद्धस्यानद्धवस्तिता मूत्रनिरोधः स्तब्धमेढ़ता च । पुरीषवहे द्वे, तयोर्मूलं पकाशयो गुदश्च ; तत्र विद्धस्यानाहो दुगन्धता ग्रथितात्रता च। शुक्रवहे द्वं, तयोर्मूलं स्तनौ दृषणौ च ; तत्र विद्धस्य क्लीवता चिरात् प्रसेको रक्तशुक्रता च। आर्त्तववहे द्वे, तयोमूलं गर्भाशय आत्ववाहिन्यश्च धमन्यः ; तत्र विद्धायां वन्थ्यात्वं मैथुनासहिष्णुखमात्तवनाशश्च । सेवनीच्छेदाद रुजाप्रादुर्भावः। वस्तिगुदविद्धलक्षणं प्रागुक्तमिति। स्रोतोविद्धन्तु प्रत्याख्यायोपाचरेदुद्धतशल्यन्तु क्षतविधानेनोपाचरेत् । मूलात् खादन्तरं देहे प्रमृतन्खभिवाहि यत् । स्रोतस्तदिति विज्ञ यं सिराधमनिवर्जितम् ॥ इति । __ अथ पञ्च पेशीशतानीति। पेशीनां पश्च शतानीत्यर्थः। तद यथा-सुश्रुते गर्भस्य। यथास्वमुष्मणा युक्तो वायुः स्रोतांसि दारयेत्। अनुपविश्य पिशितं पेशीविभजते तथा॥ पञ्च पेशीशतानि भवन्ति। तासां चखारि शतानि शाखासु, कोष्ठे पट्पष्टिः, ग्रीवां प्रत्यूर्द्ध चतुस्त्रिंशत् । एवं ताः पञ्च शतानि भवन्ति । तद् यथा-एकैकस्यान्तु पादाङ्गल्यां तिस्रस्तिस्रस्ताः पञ्चदश। दश प्रपदे। पदोपरि कूर्चसन्निविष्टास्तावत्य एव। दश गुल्फतलयोः। गुलफजान्वन्तरे विंशतिः। पञ्च जानुनि। विंशतिरूरौ। दश वङ्क्षणे। शतमेवमेकस्मिन् सक्थिन भवति। एतेनेतरसक्थि बाहू च व्याख्यातौ। एवं शाखासु चखारि शतानि पेशीनां पूर्य्यन्ते। तिस्रः पायौ। एका मेढ़े । सेवन्याश्चापरा । द्वेषणयोः। स्फिचोः पञ्च पञ्च । द्वे वस्तिशिरसि । पश्चोदरे। नाभ्यामेका । पृष्ठोद्ध सन्निविष्टाः पञ्च पञ्च दीर्घाः । षट् पार्श्वयोः । दश वक्षसि । अक्षकांसौ प्रति समन्तात् सप्त । द्वे हृदयामाशययोः। षट् यकृत्प्लीहोण्डकेषु । एवं कोष्ठे षट्षष्टिः पेशीनां पूर्य्यन्ते।
ग्रीवायां चतस्रः। अष्टौ हन्वोः। एकैका काकलकगलयोः। द्वे तालुनि । एका जिह्वायाम्। ओष्ठयो । घोणायां द्वे । द्वे नेत्रयोः। गण्डयोश्चतस्रः। कर्णयो । चतस्रो लाटे। एका शिरसीत्येवं ग्रीवां प्रत्यूद्ध त्रिंशत् पेश्यः पूर्यन्ते।
२५७
For Private and Personal Use Only