________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः शारीरस्थानम् ।
२०३७ त्रीणि षष्टाधिकानि शतान्यस्थ्नां सह दन्तोलखलनखैः ; तद् यथा-द्वात्रिंशद् दन्तोलूखलानि, द्वात्रिंशदन्ताः, विंशतिर्नखाः, विंशतिः पाणिपादशलाकाः । षष्टिरङ्गल्यस्थीनि । द्वे पाण्योंद्रे कू_धश्चत्वारः पाण्योर्मणिकाः, चत्वारः पादयोगुल्फाः। चत्वार्य्यरत्नबोरस्थीनि चत्वारि जङ्घयोः द्वे जानुनोद्वे
गङ्गाधरः-त्रीणीत्यादि। दन्तनखैः सहास्थ्नां षष्ट्यधिकानि त्रीणि शतानि नृणामिति। ननु शल्यतन्त्रे त्रीणि शतान्यस्थ्नामित्युक्तं कथमिह षष्टाधिकानीत्यत आह-सहेत्यादि। शल्यतन्त्र सुश्रुतेऽप्युक्तम् । त्रीणि सषष्टान्यस्थिशतानि वेदवादिनो भाषन्ते, शल्यतन्त्रेषु त्रीण्येव शतानि । इति । शल्यतन्त्रेष येषामस्थ्नां विशेषेण शस्त्रक्रिया चिकित्सिते नास्ति तानि षष्टयस्थीनि नोपदिश्यन्ते, न तु सन्तीति कृखा नोपदिश्यन्ते। तानि च पष्टिरस्थ्नामेषा-दन्तोलूखलेन जत्रस्थीनि षष्टिस्तैः सह त्रीणि शतानि भवन्त्यस्थ्नामिति । तानि वितृणोतिद्वात्रिंशदित्यादि । दन्तानां द्वात्रिंशत् एकैकस्यैकैकमुलूखलाकृतिस्थितिस्थानमिति। द्वात्रिंशदेव द-तोलूखलानि शल्यतन्त्रे नोक्तानि। द्वात्रिंशद दन्तास्तूक्तास्तद्ग्रहणैर्न तान्यपि गृह्यन्ते । विंशतिनखा इति शल्यतन्त्रे नोक्तम् । विंशतिः पाणिपादशलाका इति। द्वयोः पाण्योः पादयोश्च द्वयोस्तलेष चतुर्यु स्थानेष्वङ्गलिविंशतः मूलेषु स्थिताः विंशतिः शलाकाः।पष्टिरङ्गल्यस्थीनि। पाणिपादचतुष्टये विंशतेरङ्गुलीनाम् एकैकस्यामङ्गुल्यां त्रीणि त्रीण्यस्थीनि तान्येकैकस्मिन् पाणिपादे पञ्चदश, चतुर्यु पष्टिः। द्वे अस्थिनी पाष्ण्योः । पादयोमू ले शलाकाभ्योऽधस्तादेकैकमिति छ । द्वे कूर्चाध इति पाण्योः शलाकाभ्योऽधस्तात् तच्छलाकाबन्धे एकैकमिति, द्वयोः पाण्योमू ले द्वे अस्थिनी पाास्थिवत् । ततोऽधस्ताचखारः पाण्योमैणिका मणिबन्धस्थाने त्वेककस्मिन् पाणौ अस्थिनी; द्वयोश्चवारि । एवमेव पादयोश्चवारो गुल्फा इति । ततोऽधस्ताचवारि अरनयोः
चक्रपाणिः-सषष्टानीति षष्टयधिकानि। दन्तेषूलूखलम्, यत्राश्रिता दन्ताः। यद्यपि नखा विविधाशितपीतीये मलभागपोष्यत्वेन मले एवं प्रक्षिप्ताः, तथापीहास्थितारूपयोगस्यापि विद्यमानत्वाद् अस्थिगणनायां पतिताः। प्रत्यङ्गुलि पर्वत्रयम्। तेन विंशत्यङ्गुलि. गतम् अस्थनां विंशतित्रयं भवति। वृद्धाङ्गुष्ठे यस्तपादप्रविष्टम्, तत् तृतीयं पर्व ज्ञेयम् । वृद्धाङ्गुष्ठशलाका अपि स्वल्पमाना ज्ञेयाः, अङ्गुलीनां शलाका यत्र लग्नाः, तत्र शलाका अङ्गुष्टाधि
For Private and Personal Use Only