SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः शारीरस्थानम्। २०३५ पञ्चमी अलजीविद्रधीसम्भवाधिष्ठाना। षष्ठी तु सा यस्यां छिन्नायां ताम्यत्यन्ध इव च तमः प्रविशति, याश्चाप्यधिष्ठायारूषि जायन्तै पर्वसन्धिषु सुकृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्यतमानि च। इति षट् त्वचः। एताः षडङ्ग शरीरमवतत्य तिष्ठन्ति ॥३॥ कुष्ठानां सम्भवस्य दोपस्याधिष्ठानं यस्यां सा तथा। सुश्रुते तु पश्चमीयमुक्ता । तद् यथा-पञ्चमी वेदिनी नाम ब्रीहिपञ्चमभागप्रमाणा कुष्ठविसर्पाधिष्ठाना। इति। पञ्चमीत्यलजीविद्रधीति प्राधान्यादुक्तम्। सुश्रुते हि रोहिणीनाम्नीयं पष्ठी खक् । तद् यथा-पष्ठी रोहिणी नाम ब्रीहिप्रमाणा ग्रन्थ्यपच्यर्बुदश्लीपदगलगण्डाधिष्ठानेति। षष्ठीत्यादि। यस्यां खचि च्छिन्नायां ताम्यति पुरुषः । कीदृशं ताम्यतीति तद विवृणोति -अन्ध इवेत्यादि। तत्र कस्याधिष्टानमित्यत आह—याञ्चेत्यादि । अरू पीति । व्रणा या अरूपिका शोथरूपा व्रणाः। कुत्र कीदृशानीत्यत आह-पर्चेत्यादि। सुकृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्य तमानीत्यरूषीत्यस्य त्रीणि विशेषणानि । इत्येताः पट् वचः षड़ॉ शरीरमवतत्य व्याप्य तिष्ठन्तीति। उपलक्षणमेतत् तेन तन्त्रान्तरोक्तं शेषमपि बोध्यम् । तद यथा-सुश्रुते-सप्तमी मांसधरा नाम ब्रीहिद्वयप्रमाणा भगन्दरविद्रध्यर्शोऽधिठाना। यदेतत् प्रमाणं निर्दिष्टं तन्मांसलेष्ववकाशेषु न ललाटे मूक्ष्माङ्गल्यादिषु च। यतो वक्ष्यत्युदरेषु त्रीहिमुखेणाङ्गुष्ठोदरप्रमाणमवगार्ह विध्येदिति । कलाः खल्वपि सप्त सम्भवन्ति धावाशयान्तरमादाः। भवतश्चात्र । यथा हि सारः काष्ठेषु च्छिद्यमानेषु दृश्यते। तथा धातुहि मांसेषु च्छिद्यमानेषु दृश्यते। स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा। श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान् विदुः। आसां प्रथमा मांसधरा नाम, यस्यां मांस सिरास्नायुधमनीस्रोतसां प्रताना भवन्ति । भवति चात्र । यथा विसमृणालानि विवर्द्धन्ते समन्ततः। भूमौ पोदकस्थानि तथा मांसे सिरादयः। द्वितीया रक्तधरा नाम। मांसस्याभ्यन्तरतस्तस्यां शोणितं विशेषतश्च सिरासु यकृत्सम्भवाधिष्टानेति सिध्मकिलासौ यतो दोषात् सम्भवतः, तस्य दोपस्याधिष्टानभूता। एवमुत्तरत्रापि व्याख्येयम् । ताम्यतीत्यस्य विवरणम् – 'अन्ध इव तमः प्रविशति' इति। किंवा ताम्यतीति तमोयुक्तभावश्चेष्टते। अरूपीति व्रणानि। पर्वस्विति अवयवसन्धिषु ॥३॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy