________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1 अध्यायः
शारीरस्थानम् । लनणं मनसो ज्ञानस्याभावो भाव एव च।
ति ह्यात्मेन्द्रियार्थानां सन्निकर्षे न वर्त्तते ॥ शरीरिपनासर्ग उक्तः । इति त्रिविधः पुरुषः स्मृतः। कानि तानि चतुविंशतिस्तत्वानीत्यत आह मनो दशेन्द्रियाण्याः प्रकृतिश्चाष्टातुकीति । तत्सूक्ष्मदेहे यदाहङ्गारिक मनो यान्याहङ्कारिकाणि दशेन्द्रियाणि ये च खादिगुणाः पञ्च शब्दादयः पश्चभूताहकारमहदव्यक्तानीत्यष्टो चेति चतविंशतिनिष्पन्नस्थूलदही पुरुषः । तत्र क्रमेण मनःप्रभृतीनां लक्षणानि-लक्षणं मनस इत्यादिभिवक्ष्यन्त । अष्टधातुकीति अष्टभिर्धातभिः निष्पन्ना प्रकृतिरष्टधातुकी। वक्ष्यते चात्रैव। खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाष्टमः । भूतप्रकृतिरुद्दिष्टा विकाराउचैव षोडशेति ॥ ४॥ ___ गङ्गाधरः- तत्र क्रमेण मनःप्रभृतीनि लक्षयति---लक्षणं मनस इत्यादि। पूर्वमिन्द्रियोपक्रमणीय यदुन्नम्। तत्रातीन्द्रियं पुनर्मनः सत्त्वसंज्ञक चेत इत्याहुरके तदर्थात्मसम्पदायत्तचेष्टं चेष्टापत्ययभूतमिन्द्रियाणामिति। तत् पुनरदृश्यमतोऽनुमानार्थ लिङ्गमाह --लक्षणमिति। लक्षणमनुमितिकरणम् । च-शब्दो योगपद्यार्थम्। युगपजज्ञानस्याभावो भाव एवं मनसो लक्षणम् । तेन ह्यात्मना स्वाभिमतार्थ ग्रहीतु प्रवर्तितं मनस्तदर्थग्रहणार्थ तदर्थग्राहकम् इन्द्रियं यदानुधावति तदा तदिन्द्रिय मनोयुक्तं तदर्थ गृह्णाति न चेतरार्थ ग्रहीतुमिन्द्रियान्तरं प्रवत्तेते। इति तदितरेन्द्रियार्थजज्ञानस्यामावस्तदैव भवतीति मनसो युगपज्ञानस्याभावो भावश्च लिङ्गम् । यदि ज्ञानस्याभावो मनसो लक्षणं नोच्यते तदा चाक्षुषशानसद्भावकाले यथा मनोऽस्तीत्यनुमीयते तथा तदैव मनो नारतीत्यनुमितिप्रसङ्गः श्रावणादिज्ञानानां तदैवाभावात् । इति । यदि ज्ञानस्य भावो मनसो लक्षणं नोच्यते तदा मनो नास्तीत्येव सदानुमितिः स्यात् । ज्ञानस्य भावाभावयोयुगपदावे मनोऽस्तीति सदैवानुमितिः सिध्यनि। नन्वात्मेन्द्रियार्थसन्निकर्ष विना न तथा ज्ञानमुत्पद्यते मनोप्रक्षिप्य अव्यक्तशब्देनैव गृह्णाति । तेन चतुर्विशतिकपुरुष इत्यविरुद्धम् । उदासीनस्य हि सूक्ष्मस्य भेदप्रतिपादनमिहानतिप्रयोजनमिति न कृतम्। दशेन्द्रियाणीति पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रि• याणि। अष्टधातुकीति खादिपञ्चकबुद्धयव्यक्ताहङ्काररूपा। वक्ष्यति हि-वादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः । इति ॥ ४ ॥
चक्रपाणिः- अत्र चतुर्विशतिके प्रथमोद्दिष्टं मनो लक्षयितुमाह-लक्षणमित्यादि। यथा
For Private and Personal Use Only