________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः शारीरस्थानम् ।
१७४६ एवाग्र आसीदिति पक्षे तत् सद् ब्रह्मज्ञाने प्रयोजनं निर्वाणं मुक्तिः प्रदीपनिर्वाणवदसद्भावः क्षेमः। असदेवाग्र आसीदिति पक्षेऽपि तथेति समानक्षेमखादयम अप्यसत्पक्षोऽस्माकं कथमबुद्धानामपवादमात्रमिति। तत्राह सद्वादी। अपुरुषार्थवमुभयथा । सत्पक्षे यदि निर्वाणं मुक्तिर्दीपनिर्वाणमिष्यते तदा न पुरुषार्थो भवति । अर्थो हि वस्तु। तथैवासत्पक्षेऽपि । तथा निर्वाणं मुक्तिः अपुरुषार्थो भवतीत्युभयथा न निर्वाणं पुरुषार्थो भवति। पुरुषस्य मुख्यः प्रयोजनीभूतोऽर्थो वस्तु पुरुषार्थो न खवस्तु पुरुषार्थो भवतीति। प्रकृतवस्तुरूपेणाभिनिष्पत्तिनिर्वाणम्। तस्माद यदि शून्यमसदेव तत्त्वं भवति तस्मात् अवस्तुतो न वस्तुसिद्धिः स्यात्, असतः खल्ववस्तुतः सदजायतेति न सिधाति॥ भावे तदयोगेन तसिद्धिरभावे तदभावात् कुतस्तरां तत्सिद्धिः। भावे खलु सहमणि वस्तु नि तदयोगेन वस्तुसिद्धियथा मृदयोगेन घटादिनिष्पत्तिः। अभाव खल्वस ति ब्रह्मण्यवस्तुनि तदयोगाभावात् कुतस्तरां वस्तु निष्पत्तिः स्यात् उपादाननियमादिति कपिलः । __ अक्षपादनाप्युक्तम् । अभावाद भावोत्पत्तिर्नाऽनुपमृद्य प्रादुर्भावात् । असतः सदुत्पत्तिने भवति अनुपमृद्य कारणं प्रादुर्भावप्रसङ्गात्। उपमृदैव वीजमकर उत्पद्यते। ननु नष्टाद्वीजाद रो जायते तस्मान्न सतः सदुत्पत्तिरिति। तत्र सिद्धान्तः-क्रमनिर्देशादप्रतिषेध इति। नष्टाद वीजादङ्कुरो जायत इति हेतोः सतः सदुत्पत्तेः प्रतिषेधो न। कस्मात् ? क्रमनिर्देशात् । उपमईप्रादुर्भावयोः पौपिय॑नियमः क्रमः। तनिर्देशाद् अभावाद् भावानामुत्पत्तिरेव तत्प्रतिषेधो न भवति । क्रमश्चायम् । व्याहतव्यूहानाम् अवयवानां पूर्व निवृत्ती व्यूहान्तराद द्रव्यनिष्पत्ति भावात्। वीजावयवाः कुतश्चिनिमित्तात् प्रादुर्भूतक्रियाः पूर्वव्यूह जहति व्यूहान्तरश्चापद्यन्ते । इति व्यूहान्तरादङ्गु र उत्पद्यते।, इति । तत्राहुः पावादुकाः। असदिति अस्तीति सत् न सदसदिति वस्तूनामभाव एव प्रतिपद्यते। नासदभावः सद्भवतीति। तत्राह गौतमः-समभावो भावेष्वितरेतराभावसिद्धेरिति। गोरभावोऽश्वो भावः तथाश्वाभावो गोभाव इति भावेष मध्येऽन्योन्याभावसिद्धेः सर्च वस्तु ह्यभावः। न चावस्तुरूपोऽभाव उपपद्यते। भावादन्य इत्यभाव इति चेत् तत्रापि अन्यशब्देन भावादन्यखाश्रयः खलु भावमन्तरेण न सम्भवति न ह्यवस्तु भावादन्यवं नाम पृथक्त्वं गुणमाश्रयितुमहति । किन्तु शास्त्रान्तरव्यवहारानुरोधादिहाप्ययं पुरुषशब्देन संज्ञित इति दर्शयति, चिकित्साविषयस्तु षड़धातुक एव पुरुषः। अत एव तत्र 'संजित ग्रहणं न कृतम्। अयञ्च पुरुपशब्दो
For Private and Personal Use Only