SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः शारीरस्थानम् । १७४७ खादयः किं पञ्च खं वायुज्योतिरापो भूरिति किं वा खादीनि नव द्रव्याणीत्यत उक्तं चेतनाधातुषष्ठा इति तद्विशेषणं पष्ठेतिपदम्। चेतनाधातुः पष्ठो यत्र ते तथा चेतनाधातुषष्ठाः खादयः समस्तरूपेण स्मृतो न तु व्यस्तरूपेणेति पड़ धातुक एकविधः पुरुषः। चेतना खलु सा महानिर्वाणाख्यपलये यदवशिष्यते शक्तिब्रह्म। सा चेतनाशक्तिमूलप्रकृतिः सर्वात्मा चैतन्यकारिणी तचेतनाधातुरव्यक्ताख्य आत्मा, खादयः पञ्च महाभूतानि, शब्दमात्राकाशः स्पर्शमात्रवायू रूपमात्रज्योती रसमात्रा आपो गन्धमात्रा पृथिवीति पड़ धातुकः पुरुषो लोके विश्वरूपः सप्ताङ्ग एकोनविंशतिमुखः प्राणिनामन्तरात्मा स्वामस्थानः। उक्तं मुण्डकोपनिषदि। अग्निमूर्द्धा चक्षुपी चन्द्रमूयो दिशः श्रोत्रे वागवितताश्च वेदाः। वायुः प्राणो हृदयं विश्वमस्य पयां पृथिवी हेोष सर्वभूतान्तरात्मा। इति । एष मूक्ष्मरूपः सव्र्वभूतानां स्वमस्थानो भूतात्मा लोके। वृहन्माण्डक्योपनिपदि चोक्तः। तद् यथा-स्वमस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः। इति । अस्य सप्ताङ्गानि पञ्चमहाभूतानि तेजो द्विधाभूतमेकं मूर्धापरं चक्षुः श्रोत्रमाकाशं वायुः प्राण आपो वस्तिः पृथिवी देह आत्मा चाव्यक्तं स्वप्ने प्रविविक्तभोगे चास्य खल्वेकोनविंशतिमुखानि। तद् यथा-पञ्च प्राणाः पञ्च बुद्धीन्द्रियाणि मूक्ष्माणि श्रोत्रादीनि पञ्च कर्मेन्द्रियाणि च मूक्ष्माणि पायवादीनि। सूक्ष्मञ्च मनोऽहकारो महांश्चित्तञ्चेति। एतत्समुदायात्मकः पड़धातुकः पुरुषः प्राणिनां स्वमस्थानस्तैजसो नाम भूतात्मा। नन्वेते षड़ धातवः किं प्रसिद्धा एवानुपादाना एतत्पड़ धातुक एवैकविधः किं पुरुषो नान्योऽस्तीत्यत आहचेतनाधातुरप्येकः स्मृतः पुरुषसंशकः। इति। यस्य धारणपोषणोपादानहेतुर्यः स तस्य धातुः। चेतना सर्वचैतन्यहेतुरचिन्त्यानन्तप्रभाववती मूलप्रकृतिः शक्तिः ब्रह्म, या महानिर्वाणेऽवशिष्यते। तच्चेतनाशक्त्युपादानः चेतनाधातुर्य एकः खल्वद्वितीयः सोऽपि पुरुषसंज्ञकः स्मृतः । पुरि व्याकृताव्याकृतशरीरे वसतीति वसेरोणादिकः कच्प्रत्ययः पुरुषः। कथमेनं चेतनाशक्तिरुपाददाविति चेत् तदुक्तं तैत्तिरीयोपनिषदि। असद वा इदमग्र आसीत् ततो वै सदजायत । तदात्मानं स्वयमकुरुत तस्मात् तत् सुकृतमुच्यते ॥ इति । चेन्द्रियाणि खादिमयान्यवरुद्धानि। अयञ्च वैशेषिकदर्शनपरिगृहीतः चिकित्साशास्त्रविषयः पुरुषः। अयमेव पञ्चमहाभूतशरीरिसमवायः पुरुषः इत्यनेन सुश्रुतेनाप्युक्तः। स्मृत इति परिभाषया पूर्वाचार्याणामप्ययं पुरुषशब्दवाच्योऽभिप्रेतो नास्मत्कल्पित इति दर्शयति । पुरि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy