________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। रोगभिषजितीयं विमानम् विकल्पेनोपपाद्य प्रमाणवीर्यसमं कृत्वा ततः प्रयोजयेदुत्तमेन यत्ने नावहितः ॥ १०६॥
आतुरावस्थास्वपि च कार्याकार्य प्रति कालाकालसंज्ञा, तद् यथा-अस्यामवस्थायामस्य भेषजस्याकालः कालः पुनरस्य इति । एतदपि हि भवत्यवस्थाविशेषेण, तस्मादातुरावस्थास्वपि कालाकालसंज्ञा। तस्य परीक्षा मुहम्मुहुरातुरस्य सर्वावस्थाप्रमाणस्य च विशेषतो यथत्तु गुणविपरीतेन हेमन्ते उष्णगुणेन ग्रीष्मे शीतगुणेन वर्षासु लाघवगुणेन कृत्रिमगुणोपाधानेन कल्पनेन उपपाद्य निर्माय प्रमाणवीर्यसम तदौषधं तत्तदृतुना सह प्रमाणवीर्याभ्यां समं कृत्वाऽवहितोऽवधानवान् भिषक् उत्तमेन यत्नेन न खवहेलया प्रयोजयेत् । इत्येवंप्रकारेणातुरस्य परीक्षा संवत्सरकालतः कार्या॥ १०९ ॥
गङ्गाधरः-अथातुराणामवस्था च काल इति यदुक्तं ततश्चातुरपरीक्षां दर्शयति-आतुरावस्थास्वपीत्यादि। आतुरस्यावस्थासु ज्वरादौ सामखनिरामखजीर्णसवैषम्याद्याख्यासु कार्य प्रति भेषजविशेषस्य कालाकालसंज्ञा अकार्य प्रति च कालाकालसंशा। तां तां विवृणोति-तद् यथेत्यादि । अस्यामवस्थाया यथा ज्वरादौ व्याधौ सामवावस्थायाम् अस्य भेषजस्य मुख्यभेषजस्याकालः, कालः पुनरस्य तोयपेयादिसंस्कारकतया गौणभेषजस्य । इत्येवं चिकित्सितादिषु यस्यां यस्यामवस्थायां यद् यद् भैषज्यं विधातव्यं तस्यां तस्यामवस्थायां तस्य तस्य भेषजस्य कालोऽकालस्तु तदितरेषाम् इत्युन्नेयम् । निगमयति प्रतिज्ञां-तस्मादित्यादि । तस्य कालाकालस्य परीक्षा । किंवा बहुप्रतिविधेयप्रवृत्तीनि गुरुप्रवृत्तीनि। गुरुसमुत्थानानीति संशोधनक्लिष्टानि शरीराणि । तदा महता प्रयत्नेन चिरेण कालेन प्रकृति प्राप्नुवन्तीत्यर्थः। वर्षाभागान्तेष्विति हेमन्तग्रीष्मवर्षासु। हेमन्तादिध्वन्यात्ययिकव्याधौ संशोधनं दर्शयन्नाह-न चेदित्यादि। विकल्प्येति अल्पगुणयुक्तं कृत्वा। कृत्रिमगुणोपधानं यथा-शीते शीतप्रतीकारार्थमुष्णकरणम् । उक्तञ्च अन्यत्र-"शीते शीतप्रतीकारमुष्णे चोष्णनिवारणम्। कृत्वा कुर्य्यात् क्रियां प्राप्तां क्रियाकालं महापयेत्"। ऋतौ प्रतीकारं दर्शयित्वा भेपजप्रतीकारमाह-भेषजमित्यादि। संयोगविकल्पः यथा-शीते त्रिवृताया उष्णेन गोमूत्रेणालोड़नम् । प्रमाणविकल्पः यथा-अयोगप्रतीकारार्थम् अतिमात्रत्रिवृहानमित्यादिकः। अत्र च प्रमाणविकल्पस्तथा कर्तव्यः यथा विरुद्धप्रमाणभेषज
For Private and Personal Use Only