________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। . रोगभिपराजितीय विमानम् वर्णस्वरनेत्रकेशलोमनखदन्तोष्ठमूत्रपुरीषेषु विशेषेण स्नेहः मेदःसाराणाम् सा सारता वित्तैश्वर्यसुखोपभोगदैन्याजवं सुकुमारोपचारताश्चाचष्टे ॥ १० ॥
पाणिगुल्फजान्वरनिजत्रुचिवुकशिरम्पवस्थूलाः स्थूलास्थिनखदन्ताश्चास्थिसाराः। ते महोत्साहाः क्रियावन्तः क्लेशसहाः सारस्थिरशरीरा भवन्त्यायुष्मन्तश्च ॥ १॥
मृदङ्गा बलवन्तश्च स्निग्धवर्णखराः स्थूल दीर्घवृत्तसन्धयश्च मजसाराः। ते दीर्घायुषो बलवन्तः श्रुतविज्ञानवित्तापत्यसम्मानभाजश्च भवन्ति ॥ १२ ॥
सौम्याः सौम्यप्रेनिणः क्षीरपूर्णलोचना इव प्रहर्षबहलाः स्निग्धवृत्तसारसमसंहतशिखरदशनाः प्रसन्नस्निग्धवर्णस्वराः भ्राजिष्णवो महास्फिचश्च शुक्रसाराः।तेस्त्रीप्रियाःप्रियोपभोगाः बलवन्तः सुखारोग्यवित्तैश्वर्यसम्मानापत्यभाजश्च भवन्ति ॥३॥
गङ्गाधरः-मेदःसाराणां वर्णादिषु स्नेहः, वित्तं धनादि, ऐश्वर्य प्रभुता ॥९॥
गङ्गाधरः-अस्थिसाराः स्थूलपाादयः स्थूलास्थिदन्ताश्च । तेऽस्थिसारा महोत्साहादिमदादयः सारस्थिरशरीराः साररूपेण स्थिरमचलं शरीरं येषां ते तथा ॥९१॥
गङ्गाधरः-मज्जसारास्तु मृङ्गादयः। स्थूलाश्च दीर्घाश्च वृत्ताश्च सन्धयो येषां ते तथा। ते मज्जसाराः श्रुतमधीतं विज्ञानादिकञ्च भजन्ते ॥९२॥ - गङ्गाधरः-शुक्रसारास्तु सौम्या इत्यादयः । प्रहर्षबहुला मैथुनबहुलाः। स्निग्धाश्च वृत्ताश्च सारभूताश्च समाश्च संहताश्च शिखरदशना येषां ते तथा। स्त्रीप्रियाः स्त्रीणां प्रियाः ॥९३॥
चक्रपाणिः-श्रीमदिति शोभायुक्तम् । अरनिः कफोणिका। शिखरदशना शोभनदशनाः । * स्त्रीप्रियोपभोगा इति चक्रः ।
For Private and Personal Use Only